SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ५०६ व्याश्रयमहाकाव्ये [ कुमारपालः] भक्त्यान्नस्य प्रसादो नः सुघटोनन्यसात्कृतः। वर्षासु कोम्बुसात्कुर्याल्लवणं हि स्वयं भवेत् ॥ ३२ ॥ ३२. नोस्माकं प्रसाद आन्नस्य भक्त्या का सुंघटः सुखेन घट्यते क्रियते सुघटः । यत आन्नभक्त्यानन्यसात्कृतो नान्यत्राधीनः कृत आन्न एवायत्तीकृतः । युक्तं चैतत् । हि यस्माद्वर्षासु लवणं को. म्बुसात्कुर्यादुदुकीकुर्यात्किं तु स्वयमेव लवणमम्बुसाद्भवेत् ॥ संबन्धो गुरुसात्संपद्येताथो मातृसाद्भवेत् । आत्मसात्केवलो न स्यात्तद्युक्तं तौ न्ययुत सः ॥ ३३ ॥ ३३. तत्तस्माद्धेतोः स आन्नस्तौ मातृगुरू युक्तं न्ययुत विवाहसंबन्धाय व्यापारयत् । यस्मात्संबन्धो विवाहसंबन्धो गुरुसात्संपद्येत पुरोहितेधीनो भवेत्तथा मातृसाद्भवेन्मातर्यधीनः स्यात् । आत्मसादात्मन्यायत्तः केवलोयं न स्यात् ॥ दृषदीभूतम् । अत्र "व्यञ्जनस्थान्त ई(ई:)" [ १२९] इति ब्वौ-ई (ई.)। न च स्यात् । दृषद्भूतम् ॥ उदकसारकुर्यात् । संबन्धिसागवेत् । मित्रसात्स्यात् । अत्र "व्याप्तौ स्सात्" [ ३० ] इति स्सात् ॥ वर्षासु लवणमम्बुसात्कुर्यात् । अम्बुसाद्भवेत् । सर्वोपि सखिसात्स्यात् । बन्धुसारसंपचेत । इत्यत्र "जातेः संपदा च" [१३] इति स्सात् ॥ अनन्यसास्कृतः । मातृसाद्भवेत् । आत्मसात्स्यात् । गुरुसासंपेयेत । इत्यत्र "तत्राधीने" [१३२] इति स्सात् ॥ १ए मुघंट:. २ए 'ते । य. ३ बी आन्न: म. ४ बी ययत्ती". ५ बी र्या उद'. ६ बी पद्यते पुरोहिताधी'. ७ बी °ति च्चौः ई । न च: स्या'. ८ पत्र हाते । सं. ९ए सी पचत.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy