________________
[है• ७.२.११२.]
एकोनविंशः सर्गः ।
४९७
यापि सन्त्वित्यर्थः । क्रियाव्ययविशेषण इति वचनाद्रम्य( मणीय ? )मित्यत्र क्लीबता । एवमग्रेपि ॥ अत इत्यत्र "आद्यादिभ्यः" [ ७. २. ८४ ] इति षष्ठ्यर्थे तस् । " रिरिष्टोत्" [२. २. ८२] इत्यादिना रियोगे पठ्या विधानात् ॥
उपरिष्टाद्गते सिद्धेधस्तादिन्द्रस्त्वमागमः ।
द्वयं युवाभ्यां भोक्तव्यमानस्तज्ज्ञातवान्न हि ॥ १४ ॥ १४. हे भैमे त्वमुप(त्वमिन्द्र उप?)रिष्टादूर्वाया दिशो देशाद्वा स्वर्गात्सकाशादधस्तादधरस्यां दिशि देशे वा मर्त्यलोक आगम आगतः । क सति । सिद्धे जयसिंहेधस्तान्मर्त्यलोकात्सकाशादुपरिष्टास्वर्गे गते प्राप्ते । ततश्च द्वयमुपरिष्टादधस्ताच्च स्वर्गों मर्त्यलोकश्च युवाभ्यां भोक्तव्यमुपभोग्यम् । तत्तु स्वर्गः सिद्धेन भोक्तव्यो मर्त्यलोकश्च त्वयेत्येतदान्नो मर्त्यलोकोपभोगवाञ्छया त्वया सहैवं युद्धकरणेन न हि नैव ज्ञातवान् ।।
खेचराः कौतुकं द्रष्टुं ये यान्त्यायान्त्युपर्यधः ।
अस्तु रम्यं द्वयं तेषां युन्मैत्रीवार्तयाद्य वाम् ॥ १५ ॥ १५. ये खेचरा विद्याधराद्याः कौतुकं रणकुतूहलं द्रष्टुं यान्ति । क । उपयूँ/यां दिशि देशे वा स्वर्गे तथाधश्चाधरस्यां दिशि देशे वा पाताले च । तथा य आयान्ति मर्त्यलोक आगच्छन्ति । कुतः । उपर्यधश्च स्वर्गात्पातालाच्च । कौतुकं द्रष्टुं लोकत्रयेपि ये भ्राम्यन्तीत्यर्थः । तेषां खेचराणामद्यास्मिन्दिने वां युवयोर्युन्मैत्रीवार्तया रणसख्ययो.
१ सी 'यावि'. २ सी °स् । अरिष्टा'. ३ ए 'टादिना. ४ ए तश्चादमु. ५ बी °ो मृत्युलो'. ६ए °न हि. ७ बी वा पा. ८ सी लादा । कौ'. ९ बी योन्मै.