________________
४९६ व्याश्रयमहाकाव्ये
[कुमारपालः] पञ्चकृत्वः । अत्र "वारे कृत्वस्" [१०९] इति कृत्वस् ॥ द्विस्त्रिश्चतुः । इत्यत्र "द्वित्रि०" [ ११० ] इत्यादिना सुच् ॥ सकृत् । इत्यत्र "एकारसकृञ्चास्य" [११] इति सुच् सकृदित्यादेशश्च ॥
बहुधा गणधा तावद्धा वा वक्ष्याम्यहं यथा ।
भवेत्यागागतः स्नेहो युवयोः प्रागिवाधुना ॥१२॥ १२. बहवः प्रभूता गणाः समुदायभूतास्तावन्तश्च कियन्तोपि विवक्षिता आसन्ना वारा अस्य वचनस्य बहुधा गणधा तावद्धा वा तथाहं वक्ष्यामि यथा युवयोः प्राक्प्राचः कालादागतश्विरकालीन ईत्यर्थः । स्नेहः प्रागिव प्राचि काल इवाधुनापि भवेत् ॥
रमणीयं यथासीत्प्राक्सिद्धेशे प्राग्गतागते ।
भृत्येनान्नेन देवात उपर्यपि तथास्तु ते ॥ १३ ॥ १३. हे देव भैमेतोस्य वर्तमानकालस्योपर्यप्यूर्ध्वकालेपि ते वव भृत्येनानेन कृत्वा प्राक्प्राची दिग्देशो वावन्तयस्तथा रमणीयं त्वदाज्ञामनोज्ञमस्तु । यथा सिद्धेशे जयसिंहे सति प्राक्प्राची दिग्देशः कालो वा रमणीयं जयसिंहाज्ञया मनोज्ञमासीत् । किंभूते । प्राग्गतागते गतश्वासावागतच गतागतस्तस्मिन्प्राक्प्राच्यां दिशि देशे वा मालवेषु यशोवर्मनृपजयाय गते प्राच्या दिशो देशाद्वा विजित्यागते च । आनेन सह तव सख्य आन्नमाश्रितोवन्तिपतिर्बल्लालोपि त्वत्किंकरो भविष्यत्यतो यथा सिद्धेशाज्ञयावन्तयः प्राग्रमणीया आसंस्तथाधुना त्वदाज्ञ१बी वा पक्ष्या'. २ ए मणी य'. ३ बी देवता उ.
१ए 'नां चारा. २ बी इत्यः स्ने'. ३ ए यं त्वादा'. ४ हाज्ञाया. ५ए गतश्चासावगत आगता. ६सी श्च तस्मि'. ७सी 'शि दिशो वा. ८ ए बी शोधर्म. ९ सी 'यादाग'. १० बी देशका वितिजि . ११ सी वे आ.