SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४९४ व्याश्रयमहाकाव्ये [ कुमारपालः ८. स्पष्टः । किं त्वकुप्यदान्नं प्रति । ते पितामहो जयसिंहः । इत्थ १ मिममेतं वा विग्रहलक्षणं प्रकारं न व्यधात् । बहुधा बहुभिः प्रकारैः ।। ऐषमः । पैरुत् । परारि । इत्येते " ऐषमः ० " [ १०० ] इत्यादिना निपात्याः ॥ कर्हिचित् । यहि । तर्हि । बहुर्हि । इत्येतेषु " अनद्यतने हिं ( र्हिः )" [ १०१ ] इति र्हिः ॥ ४ सर्वथा । इत्यत्र " प्रकारे था" [ १०२ ] इति था ॥ 1 कथंचित् । इत्थम् । एतौ " कथमित्थम्” [ १०३ ] इति निपात्यौ ॥ बहुधा । इत्यत्र “संख्याया धा” [ १०४ ] इति धा ॥ चिकीर्षत्यान ऐकध्यं पूर्व स्नेहं द्विधाकृतम् । तितिक्षस्वैकधैकध्यमपराद्धं तदास्य तत् ॥ ९ ॥ ९. आन्नो द्विधाकृतमनेन विग्रहेणैकं सन्तं द्वौ कृतं पूर्वस्नेहमप्रेतनी प्रीतिमैकध्यमनेकं सन्तमेकमभिन्नं चिकीर्षति मैत्रीं चिकीर्षतीत्यर्थः । तत्तस्माद्धेतोस्तदानन्तरातीतदिनेस्यान्नस्यापराद्धं विग्रहलक्षणमैकध्यं प्रसादकरणरूपेणैकप्रकारेण तितिक्षस्व सहस्व । किंभूतम् । एकधानेकदुर्वाक्यप्रहाराद्यपेक्षयानेकं सदेकविग्रहापेक्षयैकमान्नस्यैकमपराद्धं प्रसद्य सहस्वेत्यर्थः ॥ द्वेधा त्रेधापराद्धेपि द्वैधं त्रैधमिवैकधा । प्रार्थितानां सतां चेतो द्वैधं त्रैधं च नो भवेत् ॥ १० ॥ १०. द्वेधा त्रेधा द्वाभ्यां प्रकाराभ्यां त्रिभिः प्रकारैर्वा पराद्धेपि द्वि १ "क". १ सीतं च वि. ५ बी नीं प्रति ९ सी राधेपि. €. त्रि, २ सी रात. ३ ए भवत्. २ बी सी 'रैः । एष ६ बी 'रूपप्र ३ बी परत. ७ ए बी राधं प्र. ४ बी रे वा ८ सीभ्यां
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy