________________
४९२ व्याश्रयमहाकाव्ये
[कुमारपालः ] नासीत् । न तस्यान्यदोत्सेकोभवत्ति कदाचिन्नासीत्सर्वदा वेत्याह । न कदाचिन्न सर्वदा न स्तोकेनापि सर्वस्मिन्नपि काल इत्यर्थः ॥
कदाचित् । यदा । तदा । सर्वदा । एकदा । अन्यदा । इत्यत्र "कियत्" [ ९५ ] इत्यादिना दा॥
आन्नदूतोभ्यगादेतद्देचे चेति सदा पटुः। यत्तदानीं व्यधत्तानो न तत्सन्मन्यतेधुना ॥३॥ ३. स्पृष्टः । किं त्वेतस्मिन्प्रस्तावेभ्यगा मिमभ्याययौ । ततः सदा पटुर्वाग्मी( गग्मी ? ) सन्नूचे च । यद्विग्रहादि । तदानीं कल्ये । न सन्मन्यते मया भद्रं न कृतमिति जानातीत्यर्थः ॥
क्षात्रो धर्म इदानीमस्त्यद्याद्यानां कथा ऋताः ।
यत्सद्यो मूर्छिते शत्रौ परेद्यवि कृपां व्यधाः ॥४॥ ४. इदानीं कलिकालेपि क्षात्रो धर्मः पतितप्रहाराकरणादिः क्षत्रियाचारोस्ति । तथाद्यानां रामचन्द्रादीनां कथा अद्य ऋताः सत्या बभूवुः । अनेन क्षत्रियोचितयुद्धेन कृत्वा त्वया पूर्वे क्षत्रियाचारयोधिनोद्य सत्यीकृता इत्यर्थः । शत्रावान्ने । परेद्यवि परस्मिन्नहनि । शिष्टं स्पष्टम् ॥
सदा । अधुना । इदानीम् । तदानीम् । एतर्हि । इत्येते "सदा०" [ ९६ ] इत्यादिना निपात्याः ॥ सथः । अघ । परेचवि । इत्येते "सद्योध" [ ९७ ] इत्यादिना निपात्याः ॥
१ए तोभागातर्थनेचेति. २ बी गादैतब्यूचेति. ३ बी तान्ये न. ४ सी नीनस्तदाद्यानां. ५ बी मस्तया.
१ ए सी नन्वस्या'. २ सीधः ॥ य. ३ सी यदेत्या'. ४ सी स्पष्टम् । किं. ५ ए वेभ्यागा'. ६ ए सचेव । य. ७ ए बी द्रं कृ. ८ ए योधनों'. ९ सीम् । ए. १० सी 'त्याः ॥ पू. ११बी अधः । प.