________________
४९० व्याश्रयमहाकाव्ये
[कुमारपालः अनभवान् । अत्रभवन्तम् । अत्रभवता । तत्रभवते । अत्रभवंत ऋते। तत्रभवतस्तनये । तत्रभवति । इत्यत्र "त्रच" [१२] इति त्रप् ॥ एवमायुष्मदादिमिरप्युदाहार्यम् । सूत्रद्वयस्यापि विकल्पपक्षे । स भवान् । तं भवन्तम् । अनेन भवता । अस्मै भवते । अस्माद्भवतः । अयमायुष्मान् । स दीर्घायुः । तं देवानांप्रियम् ॥ "त्रच" [ ९२ ] इति योगविभागश्चकारेण पुनस्तस्विधानार्थः । तेन सप्तम्यन्तादपि तस् स्यात् । ततोभवति । तत्रभवति । अन्यथा हि ततः "सप्तम्याः" [ ९४ ] इति परत्वात्रबेव स्यात् ॥ केचिच्च भवच्छन्दस्यामन्त्रणे सौ भो आदेशं कुर्वन्ति । तन्मते ततोभोः । तत्रभोः । इत्यत्रापि स्यात् ॥ कश्चित्तु भवदाद्ययोगेपि वप्तसाविच्छति । न गमिष्यसि । कं यामि ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायों श्रीसिद्ध
हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तावष्टादशः सर्गः ॥
१ए भवता. २ ए "ता । अ. ३ ए वते । अत्र. बी वते . ४ ए 'युष्मादि'. ५ ए राम्यान्ता. ६ बी सी चित्तु भ. ७ ए सौ भे
आ. सी सौ मा आ. ८ सी ष्यति । कं. ९बी "सि । किं या'. १०बी 'वो सिद्धहे. ११५ श्रीहे.