________________
१८४
घ्याश्रयमहाकाव्ये
[कुमारपालः]
कर्णेन सह हि स्फुटं किमु आयुध्यते नैवेत्यर्थः । कथं ततोभवतः पूज्याद्विष्णोतेपि विष्णुं सहायं विनापीत्यर्थः । एतेन त्वमसहाय एव कर्णतुल्येनान्नेन सहायुध्यमानोर्जुनादप्यतिबलिष्ठ इति व्यञ्जिवं स्यादिति । प्रत्यक्षस्य भैम्यानयुद्धस्य दर्शनेनातीतस्यापि कर्णार्जुनयुद्धस्य सुराणां वर्तमानत्वेनावभासनादायुध्यत इत्यत्र वर्तमाना । मृदङ्गच्छन्दः ।। आनं स दीर्घायुरहंस्ततो देवानां प्रियं भैमिरय शरेण । पपात सोथानवलम्ब्य तं देवानांप्रियं घातरजात्मयोधम् ॥१.३॥
१०३. स प्रसिद्धो दीर्घायुश्चिरजीवी भैभिस्ततो देवानां प्रियं पूज्यमान्नमयःशरेण लोहबाणेनाहन् । अथ स आन्नो घातरुजा प्रहारपीडया हेतुना पपात भूमौ । किं कृत्वा । तं हत्यारोहश्रेष्ठत्वेन प्रसिद्धमात्मयोधं स्वभटं गजाग्रभागारूढं चाहडमनवलम्व्यानवष्टभ्य यतो देवानांप्रियं मूर्खमवलम्बदानेसमर्थमित्यर्थः ॥ उपजातिः ।। न ततोदीर्घायुमेहंथुलुक्योस्त्वयमायुष्मानित्युपेक्षमाणः । इतआयुष्मान्केवलं तदीयां जग्राहेभघटा तुरङ्गमांश्च ॥ १०४ ॥
१०४. स्पष्टम् । किं तु ततोदीर्घायुः पूज्यः । अयमान्न आयुमानस्त्विति जीवतादित्युपेक्षमाणः । इतआयुष्मान्पूज्यः ॥ औपच्छन्दसकापरान्तिका ॥
वस्त्यस्तु तत्रभवतेत्रभवाञ्जयत्वित्याशंसिनात्रभवता दिविषजनेन ।
१ सी पेक्ष्यमा . २ ए °णः । अत. ३ सी युष्मन्न केव.
सी ह स्फु. २ ए ष्णो ते'. ३ सी 'दित्यप्र. ४ एनत्वभा'. ५ सी युरहंस्त.. ६ ए हस्त्यरों. ७ बी प्रियमू. ८ ए इत्य'. ९सी थः ॥ न. १० सी पेक्ष्यमा . ११ एणः । अत.