________________
[है. ७.२.९१.] अष्टादशः सर्गः ।
४८७ किम् । कुतः॥ सर्वादि । सर्वतः। विश्वतः॥ बहै। बहुतः। अत्र "किमयादि." [ ८९ ] इत्यादिना पित्तस् ॥ ब्यादिवर्जनं किम् । द्वाभ्याम् । मत् ॥ घहो. पुल्यप्रतिषेधः किम् । बहोः कालात् ॥
इतः । अतः । कुतः । एते “इतोतः कुतः" [ ९० ] इति निपात्याः ॥ इन्द्र. वंशावंशस्थयोरुपजातिः ॥ स भवान्बली कोस्त्वभि तं भवन्तं भवितालमस्मै भवतेपि कोत्र । न ऋते भटोसाद्भवतोप्यनेन भवतेति कोस्तौन ततोभवन्तौ१०१
१०१. ततोभवन्तौ पूज्यौ भैम्यान्नौ को नास्तौत् । कथमित्याह । हे भैमे स प्रसिद्धो भवान् बल्यतश्च तं प्रसिद्धं भवन्तमभिलक्ष्यीकृत्य को बल्यस्तु न कोपीत्यर्थः। अत एवास्माद् भवतस्त्वत्त ऋते विना न भटस्त्वमेव वीर इत्यर्थ इति । तथा हे आन्नास्मै प्रत्यक्षाय भवतेपि तुभ्यमप्यलं समर्थोत्र जगति को भवितास्ति भविष्यति वा न कोपीत्यर्थः । अत एवानेन भवतापि सह को भटो न कोपीत्यर्थ इति च ।। केकिरवम् ॥
आयुध्यते किमु ततोभतो विवखतः
पुत्रेण पार्थ उ ततोभवता ततोभवान् । विष्णोर्ऋतेपि हि ततोभवतः सुरा इति
शश्लाघिरे किल ततोभवतेथ भैमये ॥१०२॥ १०२. अथ किलेति सत्ये । सुरास्ततोभवते पूज्याय भैमये शश्नाघिरेवर्णयन् । कथमित्याह । उ हे भैमे ततोभवान्पूज्यः पार्थोर्जुनस्ततोभवतः पूज्यस्य विवस्वतो रवेस्ततोभवता पूज्येन पुत्रेण १ए तौस्त्वत्त ऋते. २ सी वतेथ. १ए किमु । कु. २ सी हुतः, ३ सी दिव. ४ सी वन्तिम ५ सी त्यको ब. ६ सीवानेन,