SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४८० ब्याश्रयमहाकाव्ये [कुमारपालः] ९०. स्पष्टः । किं तु पिशाचकिनो पहिलाः । पञ्चमो मासः संवसरो वास्त्येषां पञ्चमिनो बालाः । वातक्यादयो यथा भूमौ लुठन्ति ॥ __ वातक्यतीसारकिणः । पिशाचकिनः। अत्र 'वात." [६] इत्यादिनेन् कश्वान्तः ॥ पञ्चमिनो बालाः । अत्र"पूरणाद्वयसि" [६२] इतीनेव ॥ उपजातिः ॥ दुःखिनोपि सुखिनो नु मूर्छया मालिनो निपतितानहन्न सः । ब्रह्मवर्णिन इव द्विषोपि तान् क्षत्रधर्मियतिशील्ययं यतः॥९१॥ ९१. स चौलुक्यस्तानान्नभटान्द्विषोपि रणाङ्गणे निपतितान्सतो ब्रह्मवर्णिन इव ब्राह्मणजातिमतो ब्राह्मणानिव नाहन् । कीदृशान् । प्रभूतप्रहारैर्दुःखिनोपि मूर्छया प्रहारकष्टोत्थमोहेन कृत्वा दुःखस्यासंवेदकत्वात्सुखिनो नु । तथा मालिनो रणे पातेन विसंस्थुलम्लानस्रक्त्वान्निन्द्यमालान्वितान् । अहँनने हेतुमाह । यतोयं भैमिः क्षत्रधर्मः क्षत्रियाचारः पतितेष्वप्रहारादिरस्यास्ति क्षत्रधर्मी स चासौ यतिशीलं मुन्याचारः कृपादिधर्मोस्यास्ति यतिशीली चं सः ॥ सुखिनः । दुःखिनः । अत्र "सुखादेः" [६३ ] इतीन् ॥ मालिनः । अत्र "मालायाः क्षेपे" [ ६४ ] इतीन् ॥ क्षेत्रधर्मियतिशीली । ब्रह्मवर्णिनः । अत्रे “धर्म०" [६५] इत्यादिनन् ॥ रथोबता॥ १पल्ययन्तः. १बी वास्तेषां. २ बी मौ लुंठ. ३ ए बी यसती'. ४ ए °स्तान्नान. ५ए 'तपूरै. ६ ए टेथ मो'. ७ए लिनं र. ८ ए °हनेन हे'. बी ह. मनेन हे'. ९ सी चारकृ. १० ए च सा । मुं ११ बी क्षत्रिध. १२ ए 'तिशिली, १३ सीत्र ब्रह्म इ. .
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy