________________
[ है० ७.२.६०,] अष्टादशः सर्गः। . ४७९
गौशतिक । इत्यत्र "गोपूर्वाद्" [५६] इत्यादिनेकण् ॥ केचित्तु गवादेरनकारान्तादपीच्छन्ति । गौत्रिकैः ॥ नैष्कशतिकैः । नैष्कसहस्रिकैः । अत्र "निष्कादेः."[ ५७ ] इत्यादिनेकण् ॥ ऐकगविकम् । अत्रं "एकादेः." [५८ ] इत्यादिनेकण् ॥ सर्वधनिभिः । अत्र “सर्वादेरिन्" [५९ ] इतीन् ॥ वसन्ततिलका ॥ तां भैमिश्चास्यदस्त्रवृष्टिं शृङ्ग्यश्व इवोर्गप्यभान चान्नः । सुकटकवलयी यथा हि कुष्ठी पोटा वा स्तनकेशवत्यपीह ॥८९॥
८९. भैमिश्च तामान्नीयामस्त्रवृष्टिमास्यचिक्षेप । ततश्चान्न ऊर्गपि बलिष्ठोपि निस्तेजस्कत्वेन नाभात् । यथेह जगति शृङ्गी शृङ्गान्वितोश्व ऊर्गपि निकृष्टतमलक्षणत्वान्न भाति । यथा वा कुष्ठी न भाति । कीदृक् । वलयः प्रकोष्ठाभरणभेदः पादाभरणविशेषश्च पादकटकः । तथा च हंसकः पादकटक इत्यमरकोशे । ततः पादकटकैकदेशोपि कटक इति द्वन्द्वविरोधाभावे शोभनौ कटकवलयावस्य स्तः सुकटकवलय्यपि। यथा वा स्तनकेशवत्यपि पोटा नृलक्षणा स्त्री दंष्ट्रिकादिपुंश्चिह्नन विरूपत्वान्न भाति ॥
द्वन्द्व । सुकटवलयी॥ रुक् । कुष्ठी ॥ निन्द्य। }ङ्ग्यश्व । अत्र “प्राणिस्थाद्" [६०] इत्यादिनेन् ॥ अस्वाङ्गादिति किम् । स्तनकेशवती ॥ औपच्छन्दसकम् ॥ अथेषुवर्षं विदधे च भैमिरान्नस्य भृत्या लुलुवु(ठु)श्च भूमौ । वातक्यतीसारकिणः पिशाचकिनो यथा पञ्चमिनश्च बालाः ९०
१०
१ ए शृङ्गाश्व. २बी लुवश्च.
१ए पूर्वद्. २ ए सी °न्ति । गोत्रि. ३ बी हश्रिकैः. ४ बीत्र इका. ५ एमसुवृष्टिगासाच्चिं. ६ ए °ठो नि. ७ सीजस्त्वेन पा. ८ ए भेदाःपा' ९ बी दः पादाभरणमेदः पा. १० सी क ई. ११ ए भनो क. १२ बी क्षणे स्त्री. १३ बी वलीय । रु. १४ ए शृङ्गाव. सी शृङ्गश्व. १५ बी अश्वाङ्गा'.