________________
[है. ७.२.५२.] अष्टादशः सर्गः।
४७७ इति तं गदित्वा बहुरूप्यमूल्यं गुणवद्ध हेमवतीपतिर्नु । सशरं व्यधाद्रूप्यपि पौर्णमासीशशिरूप्यवक्रोथ चुलुक्यचन्द्रः ८७
८७. अथानन्तरं रूप्यपीत्यत्रापिभिन्नक्रमे । न केवलमानश्चौलु. क्यचन्द्रोपि धनुः सशरं व्यधात् । हैमवतीपतिर्नु हिमवतोपत्यस्य गौर्या भर्ता हरो यथा त्रिपुरदाहादिकाले धनुः सशरं व्यधात् । किं कृत्वा । इत्युक्तरीत्या तमानं गदित्वा । कीहक्सन् । पौर्णमास्या यः शशीन्दुस्तद्वद्रूप्यं प्रशस्यरूपान्वितं सौम्यं मुखं यस्य सः । रूप्यपीत्यस्य स्थाने कुत्रापि रुष्यपीति पाठो दृश्यते तदा रुष्यपि रोषेपि सति महापुरुषत्वेनालेक्ष्यकोपविकारत्वात्पौर्णमासीशशिवक्र इति यथास्थानमेवापिर्योज्यः। हरोपि शशिरूप्यवक्रश्चन्द्रकलया रूपवन्मुखः । कीदृशं धनुः । आहतं रूपमस्त्येषां रूप्या दीनारादयः । निघातिकाताडनाहीनारादिषु यद्रूपमुत्पद्यते तदाहतं रूपम् । बहवो रूप्या मूल्यं यस्य तत् । यथा(तथा?) गुणवत्प्रशस्यप्रत्यञ्चम् ॥ स्वामि । इत्यत्र "स्वामिनीशे" [४९] इति मिन् दीर्घश्चास्य ॥ गोमी । इत्यत्र "गोः" [५० ] इति मिन् ॥ पूज्य एव मिनमिच्छन्त्येके ॥ ऊर्जस्वी । ऊर्जस्वलेषु । इत्यत्र "ऊर्जा विन्" [५१] इत्यादिना विन्वलावस् चान्तः ॥
तमिस्राम् । अर्णव । ज्योत्स्ना । इत्येते "तमिस्रा." [५२] इत्यादिना निपात्याः ॥
१ए °नुहेम.
१बी पि भित्र. २ बी र्ता हारो. ३ सी रूप्यान्वि. ४ ए मुख्यं य. ५ बी लक्षकों'. ६ ए सी पियोज्यः . ७ ए नादीना: ८ ए च । स्वा. ९ सी स्वामिनीशे. १० बी मित्तं से ई. ११ बी ऊज्यों वि . १२ बी "दि वि. १३ ए सा । अ. १४ बी त्येन्ये त.