SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४७६ व्याश्रयमहाकाव्ये [ कुमारपाल: ] ८५. हे तपस्विन्वराक त्वयातरस्विनाबलिष्ठेनात एव मायाविना नमस्क्रियादिरूपमायान्वितेन सतेयान्कालोनायि तमामत्यर्थमतिवाहितो यथार्शसेनाशरोगवता नरेणाभ्रोभ्रवान्कालो वर्षाकालोतरस्विनार्शोरोगस्यातिवृद्धेरबलेनात एव मायाविनार्शउपशमक तथाविधौषधक्रियादिनाशौरोगवञ्चनावता सता नीयते । अधुना तु हे तपस्विन्स्रग्वी पुष्पमालावान्सन्युयुत्ससे । तस्मादहो आन्न त्वं व्यक्तं मेधाव्यसि माययेयतः कालस्यातिवाहनेन पण्डितोसि तथानामयाव्यस्यधुना युद्धाभिलाषेणामयरहितो बलिष्ठोसि ॥ अभ्रः । अर्शसेन । इत्यत्र “अभ्रादिभ्यः " [ ४६ ] इत्यः ॥ तरस्विनौ । तपस्विन् । मायाविना । मेधावी । स्रग्वी । इत्यत्र "अस्तपस् ०" [ ४७ ] इत्यादिना विन् ॥ अनामयावी । इत्यत्र " आमयाद्दीर्घश्व" [ ४८ ] इति विन् दीर्घश्चामयस्य ॥ इन्द्रवंशा ॥ स स्वामिगोमी मम तात ऊर्जस्व्यूर्जस्वलेष्वर्णवगीतकीर्तिः । हुं लज्जते त्वां न जयाम्यहिम्यज्योत्स्ना तमिस्रामिव यद्यगुण्याम् ८६. ८६. यदि त्वां न जयामि । यथाहिम्या हिमरहिता निर्मला या ज्योतिरत्रास्ति ज्योत्स्ना चन्द्रिका तमोत्रास्ति तमिस्रां तामसीं रात्रि जयति तमोपहारेण पराभवति । कीदृशीम् । अगुण्यामालोक विनाशकत्वादिदोबैर्निर्गुणाम् । तदा हुमिति कोपे । स प्रसिद्धो मम तातो जयसिंहो लज्ज्ञते । कीदृक्। ऊर्जस्वलेषु बलिष्ठेषु मध्य ऊर्जस्व्यति बलिष्ठोत एव स्वामी चासौ गोमी च भूमिमांश्च । यद्वैा स्वामिनां प्रभूणां राज्ञां गोमी पूज्योत एव चार्णवगीतकीर्तिस्तस्माद्यावज्ञेयं त्वां जयाम्येवेत्यर्थः । इन्द्रवज्रा ॥ 1 १ बी 'स्फूर्ज'. १ एना ए. २ ए 'न्युत्स'. ३ एना । तपस्विना । तप द्वा प्रभूणां स्वामिनां रा . ५ ए श्यं त्वं ज ं. ४ सी
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy