________________
४७४
ब्याश्रयमहाकाव्ये
[कुमारपालः]
मश्वाभरणादि तद्वन्तश्च ये हयास्तैर्याजियुद्धं तत्र कच्छुरैः कण्डूमद्भिस्तथा सदन्तुरेभैरुन्नतदन्तान्वितगजयुक्तैस्तथा रथिरै रथवद्भिस्तथा समेधिरैर्मेधिरा बुद्धिमन्तोमात्या युद्ध क्रियाचतुरा योधाश्च तद्युक्तैस्तथा हृदयालुभिः सहृदयै रणे निपुणैरित्यर्थः । कस्मादेवमुच्यत इत्याह । यत एकक एकाकिन्यसहाये त्वयि विषयेस्म्यहं कृपालुर्वते ॥ इन्द्रवंशावं. शस्थयोरुपजातिः ॥
मेधावता हृदयिना रथिनासि पातो
गाण्डीविकेशवसमेन कृपावता यत् । तातेन तर्हि शिरसा मणिवेन नम्र
स्तनाद्य संसरसि नासिक सोसि वीरः ॥८४ ॥ ८४. तर्हि यदा जयसिंह आसीत्तस्मिन्काले यत्त्वं मणिवेन रत्नवता शिरसा नम्रः संस्तातेन जयसिंहेन कृपावता सता पातो द्विड्भ्यो रक्षितः । कीदृशा तातेन । मेधावता तथा हृदयिना विक्रान्तेन तथा रथिनोपलक्षणत्वाद्जाश्वपत्तिवता च शक्तित्रयोपेतेनेत्यर्थः । अत एव गाण्डीविकेशवसमेनार्जुनविष्णुतुल्येन । तत्तातकृतं रक्षणमद्य युद्धदिने न संस्मरसि । तत्तस्माच्छिन्ना नासिकास्यास्ति रे नासिक तदा कृपया तातेन रक्षितस्याद्य मयैव सह युद्धकरणेन निर्लजत्वान्नक्रवर्धिततुल्य त्वं यः प्रणम्रः कृपया तातेन रक्षितः स वीरोसि वर्तसे । यत्त्वमात्मनो भटत्वं वर्णयसि तन्मे विदितमेवेत्यर्थः ॥
१ ए ण्डीवके . २ बी 'प्रतन्ना'.
४ सी हिं तदा.
१ बी जि युद्धं. २ सी था ह'. ३ बी तेंते । ई. ५ बी वन्तो त'. ६ बी 'न्मे वेदितमिवे.