________________
४.७२
व्याश्रयमहाकाव्ये
[कुमारपाल:]
अगना । ऊष्मणः । अत्र "नोङ्गादेः" [२१] इति नः॥ शाकिनः। पलालिनः । द?ण । इत्यत्र "शाकी." [३०] इत्यादिना नो हस्वच ॥ केचित्तु शाकीपलाल्योहस्वत्वं नेच्छन्ति । तन्मते शाकीनताम् । पलालीन ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥
युच्छ्राद्धवा” विषुणो नु लक्ष्मणः
प्राज्ञार्च उच्छार्करवाक् चुलुक्यराट् । खं पांशुतामिस्रमपि प्रपादयन्
दन्तांशुभिज्योत्स्नतुलामुवाच तम् ॥ ८१ ॥ ८१. चुलुक्यराट् तमान्नमुवाच । कीटक्सन् । विषुणो नु विष्वञ्चो रश्मयो विष्वग्गतानि वास्य सन्ति विषुणो रविर्वायुर्वातितेजस्वित्वादलिष्ठत्वाच्च तयोस्तुल्योत एव युधि श्राद्धः श्रद्धावान्वार्तश्च व्यापारवान् युच्छाद्धवार्तस्तथा प्राज्ञेषु प्रज्ञावत्स्वार्थोर्चावान्पूज्यः प्राज्ञार्यों विद्वत्तमोत एव शर्करात्रास्ति शार्करं दुग्धमोदकादि माधुर्यातिशयेनोत्क्रान्ता शार्करमुच्छर्करा वाग्यस्य सः । तथा लक्ष्मणः स्मितेन सश्रीकोत एव खमाकाशं पांशुभिस्तमिस्रा तमस्ततिस्तमो वात्रास्ति पांशुतामिमपि धूलीधूसरितमपि दन्तांशुभिः कृत्वा ज्योत्स्नात्रास्ति ज्योत्स्नः श्वेतपक्षस्तस्य या तुला साम्यं तां प्रपादयन्नङ्गीकारयञ् श्वेतीकुर्वन्नित्यर्थः ॥ इन्द्रवंशा॥
किमुवाचेत्याह ।
१ बी णो ल° २ सी णः प्रशा. ३ बी भिज्योत्ल'. १५ नः । द. २ ए बी दद्रुण. ३ ए विषणो. ४ बी रस्मयो. ५ बी विवायु. ६बी ज्य: प्रज्ञा ७ बी ग्यस्यां सः. ८ ए बी मिश्रा त. ९ बी मिश्रम. १० सी सस. .