________________
[है०७.२.२८.]
अष्टादशः सर्गः। पराक्रमैः । कीदृग्गजः । दानान्मदापिच्छं चिकणत्वमस्यास्ति पिच्छिलः पकिलो मदोत्कटः ।। शार्दूलविक्रीडितम् ।।
युध्यस्ख नान्योस्म्यहमात्मतेजसो
मणः स एवोद्भुषणेन द?ण । शाकीनतां याति न यत्पलालिनो
न वा पलालीनपदं च शाकिनः ॥ ८० ॥ ८०. हे उद्भुषणेन रोमाञ्चेन कृत्वा द्रुण दर्दूव्याधियुक्त युयंस्वानेकभटैः सह युद्धेनातिश्रान्तत्वाद्योढुं न शक्नोषीत्यहं न युध्य इति न वाच्यम् । यतोहमात्मतेजसा कृत्वोमोष्मत्वमस्यास्त्यूष्मणः सन्नान्योस्मि श्रान्तत्वादिप्रकारेण नान्यादृशो वर्ते । किं तु स एव यादृग्युद्धापूर्व दृष्टस्तादृश एवास्मि । युक्तं चैतन् । यद्यस्मात्पलालिनो महत्पलालं पलालक्षोदो वा पलाली तद्वान्प्रदेशः । शाकीनतां महच्छाकं शाकसमूहो वा शाकी तद्वत्प्रदेशतां न याति । शाकिनश्च पलालीनेपदं पला. लीवत्स्थानं पलालीनतामित्यर्थः । न वा याति ॥ वाचाल । वाचाटः । अत्र "वाच: " [२४] इत्यादिना-आलाटौ ॥ वाग्मिन् । इत्यत्र "मिन्" [२५] इति ग्मिन् ॥ मधुर । खर । इत्यत्र "मध्वादिभ्यो ः" [२६] इति रः ।। कृषीवल । दन्तावल(लः)। इत्यत्र “कृप्यादिभ्यो वलच्" [२७] इति वलच् ॥
लोमश । कर्कशैः । इत्यत्र । पिच्छिलः । उरसिलैः । इत्यत्र च "लोम." [२८] इत्यादिना श इलश्च ॥ १बी दद्रुण.
१ सी °ण म. २ बी सी पिच्छल:. ३ ए कण्ठः। शादूल'. ४ सी उद्धृष. ५ वी दद्रुण दद्र्व्या . ६ ए°ध्यस्थाने". ७ बी युद्ध इ. ८ए शो बते । किं. ९ ए सी यस्मा. १० ए °लीव. ११ सीनता. १२ बी सी वाग्मिन्. १३ ए कैश । . १४ सी पिच्छल:.