SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४७० ब्याश्रयमहाकाव्ये [कुमारपालः कालालः । कालिलम् । जटाल । जटिलैः। घाटोल । घाटिल । अत्र “काला." [२३] इत्यादिना ल-इलौ ॥ कालेति डोपान्त्यं केचित्पठन्ति । काडाल । काडिलैः ॥ वसन्ततिलका ॥ ज्यावाचालधनुष्क किं न पुरतो वाग्मिनिहागाः स्वयं वाचाटः प्रहितः खरामधुरवाग्योढुं जनोयं मुधा । बन्धुं नोरसिलैः कृषीवलजनैर्दन्तावलः पिच्छिलो दानाल्लोमैशकर्कशैरपि यतः शक्योङ्गनानिःसहैः ॥ ७९ ॥ ७९. ज्यया प्रत्यञ्चया वाचालमसकृदाकृष्यमाणत्वादव्यक्तस्वरत्वाच्च बहुगटवाग्युक्तं धनुर्यस्य हे ज्यावाचालधनुष्क तथा हे वाग्मि(ग्ग्मि)न् । उपहासेन संबोधने इमे । हे चौलुक्य पुरतः प्रथमं स्वयमिह मत्समीपे किं क्रिमिति त्वं नागाः । तथायं मया हतविप्रहतो जनो भटलोको योद्धं मुधा मत्पुरोकिंचित्करत्वान्निरर्थकं त्वया प्रहितः । कीदृक् । खं महत्कण्ठविवरमस्त्यस्यां खरा कठोरात एव न मधु माधुर्यमत्रास्त्यमधुरा च वाग्यस्य सः। तथा वाचाटो बहुगीवागसन्निष्फलमात्मनः प्रभोश्च पराक्रमादि प्रशंसन्नित्यर्थः । अर्थान्तरन्यासमाह । यतः कृषीवलजनैर्हालिकलोकैर्दन्तावलो हस्ती न बँन्टुं शक्यः । किंभूतैः । उरसिलैरपि महावक्षोभिरप्यतिस्थूलैरपीत्यर्थः । तथा लोमानि सन्त्येषां लोमशास्ते च ते कर्कशाश्च कोश्व उपमेयतयास्त्येषां श्वेताश्ववत्कठोरास्तैरपि । तर्हि कस्मान्न शक्य इत्याह । यतोङ्गनानिःसहैः स्त्रीवद १ बी सी वाग्मिन्नि. २ बी पिच्छलो. ३ बी मक. ४ बी शक्येङ्ग. १ए लाल । का. २ सी टालः । घा. ३ बी सी ति वोपा. ४ सी "ह स. ५ बी मत्परो'. ६ ए मथास्त्य. बी मत्रत्यम. ७ए 'ग्य सः. ८ सी कृनिःफल'. ९बी निफल'. १० बी बढुं श. ११ बी को उ..
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy