SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३७ है० ५.१.१.३.] एकादशः सर्गः । मत्पूर्वजा महामुनीनामपि श्लाघ्या अभूवन्नित्यर्थः । मद्रकाराणों क्षेमकाराणां तेषां पूर्वजन्मनां यथा तु पृथ्वीन्यायपालनादिरूपमार्गेण कृत्वा पुनरहमपि मद्रंकरः सर्वलोककल्याणकार्यभवं यथा पूर्वतीर्थंकरपंथेन प्रथमाईदुपदिष्टदयामूर्लमार्गेणान्यतीर्थकरोपरोहन्मद्रंकरः स्यात् ।। अथ विधेयमाह ॥ तीर्थकारव्रती मेघंकरों नु भयंकरे। मुक्ताहारविहारोहमृतिंकराभयंकरः ॥ ७१ ॥ प्रयते मुक्तये चेत्त्वं प्रियंवद वशंवदः । द्विपंतपमिदं राज्यं तद्गृहाण परंतपः ॥ ७२ ॥ ७१,७२. हे प्रियंवदानुकूलवादिन् कुमार चेत्त्वं वशंवदो वशं वदसि यदहं वच्मि यदि तन्मन्यस इत्यर्थः । तदा त्वं द्विषंतपमिदं राज्यं गृहाण । यतः परंतपोतिप्रतापित्वाच्छत्रुसंतापको राज्यधुराधरणक्षम इत्यर्थः । अहं तु मुक्तये प्रयत उद्यच्छामि । कीहक्सन् । ति स्थण्डिले गति सत्यतां वा करोमि ऋतिकरो योभयंकरः सर्वजीवानां मृत्युभयाभावस्य कर्ता सः । तथा मुक्ताहारविहारस्त्यक्तभोजनविचरणः । यथा तीर्थकारव्रत्याहतो मुनितिकराभयंकरोत एव भयंकरे महावृष्टयों मीषणे मेघंकरों वर्षाकालेनेकजीववधाशङ्कया मुक्ताहारविहारः सन्मुक्तये प्रयतते ॥ १ सी तीर्थकर. २ सी डी करा" नु. ३ ए रतों न. ३ ए रोय. ४ सी मृतक. डी मृतंक. . १ ए सी श्लाघा अ°. २ डी णां ते. ३ ए सी डी °था नु पृ. ४ सी तीर्थक. ५ ए सी डी पदेन. ६ बी लधर्मरूपमा'. ७ ए मारे चे'. ८ सीडी 'मि त'. ९ ए दातुं दि. १० सी ऋत स्थ. डी ऋतं स्थ°. ११ सी ऋतक. डी ऋतंक°. १२ ए मृत्यभ. ए निरति . १३ बी निऋतिं. सी निकतंक. १४ डी ब्रतंकरो भ. १५ सी ट्यादिनी . डी 'टयादिमी.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy