SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [जयसिंहः ६७. स राजा कर्णोकलहकारं कलिवर्जितं तं कुमारमिति वक्ष्यमाणरीत्याह स्म । कीहक्सन् । पदकारस्येव वैयाकरणस्येव वाग् यस्य स वाग्मी तथा मन्त्रकारैर्मत्रिभिः सह संवदंस्तदनुमतिं गृह्णन्नित्यर्थः । यतः किंभूतैः । सूत्रकारैर्नीतिसूत्रकारिभिः शुक्रादिभिः संहावैरकारेस्तत्कृतनीतिसूत्रपाठान्न कलहायमानैर्नीतिज्ञैरित्यर्थः ॥ गाथाकारैः शब्दकारेरचाटुकारवृत्तिभिः । मुनिभिर्भूभद्रकारक्षेमकारप्रियंकरैः ॥ ६८ ॥ क्षेमंकरा भद्रंकरा प्रियकारी च कीर्तिता । वृत्तिः कर्मकरीभूतद्विषां मत्पूर्वजन्मनाम् ॥ ६९ ॥ तेषां तु मद्रकाराणां यथा मद्रकरोभवम् । पूर्वतीर्थंकरपथेनान्यतीर्थकरो यथा ॥ ७० ॥ ६८-७०. हे कुमार कर्मकरीभूतद्विषां मत्पूर्वजन्मनां मदीयपूर्वजानां वृत्तिायेन पृथ्वीपालनादिरूप आचारो मुनिभिः कीर्तिता प्रशंसिता । यतः किंभूता । क्षेमंकरा बाशिरीरस्य धनकनकादे रक्षा क्षेमं तत्की ती भद्रंकरान्तरस्याङ्गस्य रक्षा भद्रं तत्की तथा प्रियकारी च सर्वलोकवाञ्छितानां की च । किंभूनैः । गाथाकारैः कविभिस्तथा शब्दकारवैयाकरणैस्तथा न चाटुकारी वृत्ति]पां तैनिःस्पृहेरपीत्यर्थः । तथा भूभद्रकारक्षेमकारप्रियंकरैः सर्वथा पृथ्व्या हितैरित्यर्थः । १ ए °द्रकराणां मथा. २ सी मद्रक'. १ए कलेव. बी कलहव. २ ए °कारास्ये वै०. ३ ए त्यथं । य'. ४ ए रैनीति०.५ सी डी सह वै०.६ डी नैर्निति°. ७ ए °त्तिन्याये. ८ ए 'ह्यस्य श०. ९ प रकक्षा. १० डी था भद्रं . ११ एङ्गस्यं रक्ष भ°. १२ एरवेंयाकरणःस्त. १३ ए 'त्यर्थ तथभूतभ. १४ ए व्या हतै'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy