SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः] मलवद्यशस्कान्मलिनेन कर्मणातिमलीमसांस्तर्जयितानकः स्वकान् । दलितुं मरुत्वानिव पर्वतान्द्विषो युयुधे ततः पर्ववेदस्वभृत्स्वयम् ७२ ७२. यथा मरुत्वानिन्द्रः पर्वास्त्येषां तान्पर्वतानद्रीन्वत्रेण दलय. येवमानको द्विषो दलितुं स्वयं युयुधे । कीदृक्सन् । पर्ववन्ति प्रशस्यप्रन्थिप्रदेशयुक्तानि यान्यस्त्राणि शरास्तभृत्तथा स्वकान्स्वकीयभटांतर्जयिता निर्भर्त्सयन् । यतो मलवद्यशस्कान्मलिनकीर्तीन् । एतदपि कुत इत्याह । यतो मलिनेन कर्मणा रणभङ्गेन निन्द्यकर्मणातिमलीमसान् । मरुत्तवत्तुण्डिभचक्रवर्षी स योधयन् क्रुद्वेलिभालिकोरीन् । ऊर्णायुवद्वा वटिभानवद्वाहंयुस्तदामस्त शुभंयुमानी ॥ ७३ ॥ __७३. स आन्नस्तदारीन्योधयन्युध्यमानान्प्रयुञ्जानोमंस्त । कीह. शान् । ऊर्णायुवद्वा सुखविनाश्यत्वेनोरणकतुल्यान् । वटिभानवा वटिभं वटीव्यजनविशेषान्वितं यदन्नं तत्तुल्यान्वा । कीहक्सन् । शुभंयुमानी शुभंयुं शुभसंयुक्तमनुकूलदैवमात्मानं मन्यमानोत एवाहयुरहंकारवानत एव क्रुधा पलिभं रेखायुक्तमलिकं ललाटं यस्य सोत एव च मरुत्तवद्राजविशेष इव तुण्डिभानि प्रवृद्धनाभिमन्ति चक्राणि चक्रा. स्त्राणि वर्षतीत्येवंशीलो यः सः ॥ मलीमसान् । मलिनेन । मलवत् । इत्यत्र "मलादीमसच" [१४] इतीमसेनौ मतुश्च ॥ मरुत्त। मरुत्वान् । पर्वतान् । पर्ववत् । इत्यत्रे "मरुत्"[१५] इत्यादिना तो मतुश्च ॥ १ बी लयव. २ सी दलयन् म. ३ ए वन्ति प्रशस्य'. ४ ए 'दभिलाभिको.' १ए भस्तय". बी भंय'. २ सीणाति'. ३ ए मणोति'. ४ ए युजानों'. ५ सी श्यकत्वे. ६ए द्वा भटिर्भवटी. ७सी टिभव. ८ बीत्तद्राज. ९ सीमसोनौ. १० सीत् । अम. ११ बी रुत्तान्. १२ सीत्र अम'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy