SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ [कुमार ४६४ ब्याश्रयमहाकाव्ये [कुमारपालः] ६८. कापि च रणप्रदेशेतुन्दिलोस्थूलोदरस्तुन्दवन्तं जिगाय। कापि च तुन्द्यतुन्दिकं जिगाय । यथा स्थानं ग्रामादिस्तदस्यास्ति स्थानी प्रामठक्कुरादिस्तद्वशेनाशालिलं शालिरहितं दरिद्रं शालीश्वरो जयति । अाथ वा यद्वदशालिको दरिद्रोपि शालिमन्तमिति ।। उपेन्द्रवज्रा ॥ पङ्किलत्रीहिलक्षेत्रवान्महीं शोणितैः पङ्किनी पङ्कवन्मूर्तयः। पङ्किकक्ष्मातलस्रंसिनः पादिलान्संत्यजन्तो मयांश्चक्रमुः पत्तयः ६९ ६९. पङ्कवती श्रमोत्थस्वेदसैन्यरजःसंपर्केण कर्दमवती मूर्तियेषां ते तथा पत्तयः स्फारका युन्महीं रणोर्वी चक्रेमुर्गताः । किंभूताम् । शोणितैः पङ्किनीमत एव पङ्किलब्रीहिलक्षेत्रवत्पङ्कयुक्तंब्रीहियुक्तक्षेत्रतुल्याम् । किंभूताः सन्तः । मयानुष्ट्रभेदान्संत्यजन्तः। किंभूतान । पङ्किकं शोणितकर्दमयुक्तं यक्ष्मातलं तत्र संसिनः स्खलनेनाधःपातुकान् । एतदपि कुत इत्याह । यतोतिवृद्धा महान्तः पादाः सन्त्येषां पादिलास्तान् ॥ स्रग्विणी ॥ यथैव शृङ्गारकपादिभिाग्मृगैर्मृगाः पादिकशृङ्गवन्तः । वृन्दारकैस्तद्वदन्दवन्तो भटैर्भटा युद्धकृतोत्र दृष्टाः ॥ ७० ॥ ७०. तद्वत्तथा वृन्दारकैः समूहवद्भिर्भटैः सहावृन्दवन्त एकौकिनो भटा युद्धकृतो युध्यमाना अत्र रणे दृष्टाः । यथैव शृङ्गारकपादिभिः शृङ्गवद्भिर्विवृद्धपादवद्भिश्च मृगैरारण्यपशुभिः सह पादिकशृङ्गवन्तो मृगा युध्यमाना दृश्यन्ते ॥ १ए किनी प. २ बी क्रतुः प. १ बी शेन शालिनं शालिर'. २ सी लिर'. ३ सी रो गाय. ४ ए थावथाय'. ५ बी कतुर्ग'. ६ बी क्षेव. ७ सीक्तक्षे. ८ सी तुल्याः । किं. ९ए °लान्. १० सी 'कादिनो भट यु. ११ ए युद्धमा . १२ सी 'गारिक. १३ ए दिभिशृंगारव'. १४ सी भिः शृंगारव. १५ बी सी द्भिवृद्ध'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy