SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४६२ व्याश्रयमहाकाव्ये (कुमारपालः] छत्रिणः कार्यिणो योधिनश्छत्रिकैः कार्यिकैर्भूत्यवद्भिःस्ववद्भिर्भटैः। छत्रवान्माल्यवान्कर्पटी वर्मुनिर्वीरवत्याहवे पश्यति मात्र सः६५ ६५. वीरवति भटान्वितेत्राहवे रणे स रणकौतुकी स्वर्मुनि रदो भटैः सह योधिनोवश्यं युध्यमानान्भटान्पश्यति स्म । कीदृक् । छत्रवांश्छत्रिकान्वितस्तथा माल्यवान्पुष्पमालान्वितस्तथा निन्द्यः कर्पटोस्यास्ति कर्पटी कक्षापटान्वितः । कीदृशान्योधिनः । छत्रिणष्ठकुरत्वेन धृतातपत्रांस्तथा कार्यिणो रणव्यापारवतः । किंभूतैर्भटैः । छत्रिकैस्तथा भृत्यवद्भिस्तथा स्ववद्भिर्दानार्थद्रव्यवद्भिर्जातिमद्भिर्वा तथा कार्यिकैः ॥ श्र(स्रग्विणी छन्दः॥ धनिनः कर्पटिका अपि ह्यभूवनसिनः सत्यरणस्तवेषु सूताः । धनिकाधीनधनैरपीह वीरै रसिकैस्त्यागरणक्रियाखशङ्कः ॥६६॥ ६६. इह रणे सूता भट्टाः कर्पटिका अपि निःस्वत्वेन निन्द्यकर्पटान्विता अपि सत्यरणस्तवेष्ववितथभटयुद्धवर्णनासु रसिनो रसिकाः सन्तो वीरैः कृत्वा धनिन ईश्वरा अभूवन् । यतो धनिकाधीनधनैरप्युत्तमर्णायत्तद्रव्यैरप्यणग्रस्तैरपीत्यर्थः । परं त्यागरणक्रियासु दानप्रधानेपु रणकर्मसु रसिकैः साभिलाषैः । एतदपि कुत इत्याह । यतोशकैर्ऋणभयरहितैरकातरैश्चेत्यर्थः ॥ औपच्छन्दसकापरान्तिका ॥ समित्खलिन्यां भुवि कोप्यशै(शी?)र्षिक: प्रत्यर्थिकीर्त्यर्थ्यकरोदशीर्षिणम् । अशीर्पवान्सोपि ननत खड्गभृत् प्रत्यर्थिकैरर्थिकवत्परिष्टतः ॥ ६७ ॥ १ ए त्यद्भिः. २ ए 'कर्षटी. ३ ए प्रथिं . ४ बी रक'. १बी न्वितोत्रा'. २ ए न्योनिधि'. ३ बी पत्रास्त. ४ बी सी छकै. ५ बी तिम. ६ बी पिके। श्री. ७सी कैः । स्वग्वि'. ८ सी भटा क. ९ बी निसत्वे. १० ए अभव'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy