SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ [ है० ७.१.१९३.] अष्टादशः सर्गः। ४५९ एषोभिकः शृङ्खलकावती! ममास्तु योद्धा जिनदत्तकान्यः । ममोत्सुकायास्त्वयमाहवोत्को. भीकोस्त्विति व्याहियताप्सरोभिः ॥६० ॥ ६०. अप्सरोभिर्व्याहियतोक्तम् । किमित्याह । एष योद्धा ममाभिको भर्तास्तु। कीदृक् । शृङ्खलं बन्धनमस्य शृङ्खलकः करभस्तस्माद्युद्धार्थमवतीर्ण इति । तथा मम तु मम पुनरुत्सुकाया उत्कण्ठिताया अयमाहवोत्को युद्ध उन्मना योद्धाभीको भर्तास्तु । कीहक् । जिनदत्तकान्यो जिनदत्तो मुख्योस्य जिनदत्तकः संघस्तस्मादन्य इति च । देवीभिर्भटा इत्थं वृता इत्यर्थः ।। ___ अभिकः अभीकः । अत्र "अभेरीश्च वा" [१८९] इति क ईश्चास्य वा ॥ जिनदत्तक । इत्यत्र “सोस्य मुख्यः" [१९०] इति कः ॥ शृङ्खलक । इत्ययं "शृङ्खलकः करभे" [१९१] इति निपात्यः ॥ उत्कः । उत्सुकायाः। अत्र “उँदुत्सोरुन्मनसि" [ १९२] इति कः ॥ उपजातिः ॥ तेजोभिरुष्णकतृतीयककाशपुष्प कान्नु ज्वरानसुहृदां दिशता क्षणेन । कौल्मास्य(ष्य?)थ त्रिपुटिका वेटकिन्यमानि केनापि सिद्धसुरसाक्षिरणस्य लीला ॥ ६१॥ ६१. केनापि भटेन सिद्धा विद्यासिद्धादयः सुराश्च देवाः साक्षिणः कौतुकायातत्वात्साक्षाद्रष्टारो यस्य तद्यद्रणं तस्य लीला केलि १ ए बी वटिकि. १ सी योभी . २ बी ख्योख्य जि. ३ सी श्च श्वा इ. ४ सी सो मु. ५ ए त्यत्र शृ. ६ ए उन्मुका. ७ ए उडुत्सो. ८बी द्यदृणं.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy