________________
व्याश्रयमहाकाव्ये
[कुमारपालः ] अप्युष्णकां तत्रकवत्रखण्डलं वा शीतकः किं लभर्तेशकोपि हि । इत्युंष्णकैर्ब्राह्मणकोद्भवैर्बलेधिकैर्भृशं कीर्त्यनुकैर्विचक्रमे ॥ ५९ ॥
५९. ब्राह्मणकोद्भवैः सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धृत्य पृथकृतो ब्राह्मणको देशो यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति । आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये । तत्रोद्भवैर्भटैर्विचक्रमे विक्रमः कृतः । किंभूतैः । उष्णकैरुष्णं क्षिप्रं कुर्वद्भिर्दक्षैरित्यर्थः । तथा बले सामर्थ्यधिकैरध्यारूढैस्तथा कीर्त्यनुकैः कीर्तिकामयमानैः । कुतो विचक्रमे । इति हेतोः । तमेवाह । हि यस्मादेशं हार्यशकोपि दायादोपि शीतं मन्दं करोति शीतकोलसः सन् किं लभते नैवेत्यर्थः । किमित्याह । उष्णादचिरोद्धृतोष्णिका तामप्यास्तामन्यद्यवागूमपि । यद्वा तत्रात्तन्तुवायोपकरणादचिरोद्धृतं तत्रकं यद्वत्रं तस्य यत्खण्डलं खण्डं तदपीति ॥
४५८
अंशकः । अत्र “अंश हारिणि " [१८२] इति कः ॥
तन्नक । इत्यत्र “तन्त्राद्०" [१८३] इत्यादिना कः ॥ ब्राह्मणक । इत्यत्र "ब्राह्मणान्नान्नि” [१८४] इति कः ॥ उष्णिकाम् । अत्र “उष्णात् " [१८५] इति कः ॥
शीतकः । उष्णकैः । अत्र “शीताच्च कारिणि " [१८६ ] इति कः ॥ अधिकैः : । अत्र " अधेरारूढे " [१८७ ] इति कः ॥
अनुकैः । अत्र “अनोः कमितरि” [ १८८ ] इति कः ॥ इन्द्रवंशावंशस्थयो
रुपजातिः ॥
१ सी वा सीत. २ ए "त्युष्णुके'.
१ ए घोट'. २ सी देशे व.. ३ सी मर्थ्याधि ४ बीस किं. 'णादिचि ६ ए त्रादिना. ७ बी किम्.
५ सी