________________
४५४
व्याश्रयमहाकाव्ये
[कुमारपालः]
बहुतियात् । गणतिथैः । पूगतिथत्वम्]ि । संघतिथाः। इत्यत्र "पित्तिथद" [१६०] इत्यादिना पित्तिथट् ॥ इयतिथैः । अत्र "अतोरिथद" [१६१] इतीथद ॥ पष्ठम् । कतिथैः । कतिपयथः। अत्र "पदकति०" [१६२] इत्यादिना थद ॥ चतुर्थः । अत्र "चतुरः" [१६३] इति थट् ॥ तुर्यम् । तुरीयः । अत्र “येयौ चलुक्च" [१६४] इति येयौ चस्य लुक्च ॥ द्वितीयः । अत्र "द्वेस्तीयः" [१६५] इति तीयः ॥
तृतीयः । इत्यत्र "त्रेस्तृ च" [१६६] इति तीयोश्च तृ ॥ औपच्छन्दसका. परान्तिका ॥ कीर्त्या पूर्वी संदृष्टपूर्व्यद्य चाहं साध्विष्ट्याम्नाती युद्धयज्ञेसि वीर । इत्युक्त्या कोप्यामोदयद्धातमूढं द्राक्छg यद्वच्छाद्धिकं श्राद्धिभक्तः
॥५५॥ ५५. कोपि भटो घातमूढं शत्रु द्रागामोदयदाहादयत् । कया । उत्तया प्रशंसावचनेन । कथमित्याह । हे वीरासि त्वं युद्धमेव स्वर्गहे. तुत्वाद्यज्ञस्तत्र विषय आम्नातमभ्यस्तमनेनाम्नाती निपुणोसीयर्थः । अत एव साधु सुभटोचितं यथा स्यादेवं युद्धयज्ञ इष्टमनेकारिभटाहुतिभिर्यजनं येन स इष्ट्यसि । अत एव चाहं त्वां की| कृत्वा पूर्व दृष्टोनेन पूर्व्यतिविक्रान्तं त्वां पूर्व श्रुतवानस्मीत्यर्थः । अद्य चाधुना त्वहं त्वां संदृष्टपूर्वी युद्धेन सम्यक्साक्षात्कारेण त्वां विक्रान्तं दृष्टवानित्यर्थ इति । यद्वद्यथा आद्धिभक्तः श्राद्धं पितृदैवत्यं कर्म । उपचारात्त
१ ए पूर्वद्य. २ सी श्राद्ध'.
१बी तिथिट्. २ ए सी त्तिथिट. ३ ए श्च तुः । औं'. ४५त्य. पोऽस्यथ सा. ५ बी युद्धं य. ६ सी आदर्भ.