________________
[ है. ७.१.१५९.] अष्टादशः सर्गः।
४५३ थोमरपूगतिथस्तैद्भावं देवत्वमित्यर्थः । कीदृशाः सन्तः । गणतिथैर्गणानां बहूनां पूरणैर्भटैर्हताः । तत्र तु रणे कतिथैः कतीनां पूरणैर्भटैश्वमूर्विरहितेति प्रश्ने । इयतिथैरियतां पूरणैर्विरहितेतीदं न किंचिदबुध्यत सैन्यानामतिबहुत्वान्न किमपि ज्ञातम् ॥ द्रुतविलम्बितम् ।। बलकतिपयथः कोपि दोर्द्वितीयस्तूणतृतीयः सद्धनुश्चतुर्थः । षष्ठं तुर्य विद्विषं नृपस्य मंश्चक्रे भात्मनस्तुरीयः ॥ ५४ ॥
५४. कोपि भटो भर्चा नृपेणात्मनस्तुरीयश्चतुर्थश्चक्रेतिमान्यत्वादास्मनश्चतुर्थस्थाने कृत इत्यर्थः । यतो नृपस्यारिभूपस्य तुर्य षष्ठं च चतुर्थस्थानीयं षष्ठस्थानीयं च विद्विषं नन् । कीदृक्सन् । दोषौ बाहू द्वितीयौ यस्य सः । तथात्मभुजापेक्षया तूणौ तृतीयौ यस्य सः । तथात्मभुजतूणापेक्षया सद्धनुश्चतुर्थं यस्य सः । तात्पर्येणैकाकीत्यर्थः । एकाकी चेत्कथमसौ तादृशौ द्विषावहन्नित्याह । यतो बलकतिपयथो बलेन कतिपयानां स्तोकानां पूरणो बलेन कियन्तोपि तादृशा इत्यर्थः ॥
विंशतितमस्य । एकविंशी । त्रिंशत्तमस्य । त्रिंशी । इत्यत्र "विंशति." [१५६] आदिना वा तमद ॥
शततमी । सहस्रतमस्य । मासतम्याः । अर्धमासतम्योः। संवत्सरतमी । इत्यत्र "शतादि०" [१५७] इत्यादिना तमट् ॥
पष्टितम । अशीतितम । इत्यत्र “षष्टयादेर०" [१५८] इत्यादिना तमद ॥ असंख्यादेरिति किम् । एकषष्टितम । एकपष्टः ॥
पञ्चमः । अत्र “नो मद" [१५९] इति मद ॥
१ सीस्तद्भवं. २ए दं ना किं. ३ सी म्बि । ब. ४ बी धक. ५ सी 'यं च. ६ बी बाहौ दि. ७ सी त्मनो भु. ८ बी त्रिंशतीत्य', ९ बी हश्रत. १० सी तमः । ए'.