________________
४२२
व्याश्रयमहाकाव्ये
[ कुमारपालः]
पूरणी संवत्सरतम्यक्षयतृतीयादिस्तथार्धमासस्य पूरण्यर्धमासतम्यमावास्या पूर्णिमा वा । द्वन्द्वे तयोस्तिथ्योर्यत्पर्व हर्षक्रियारूप उत्सवस्तैदिवाहवं विजानन् । ईदृशोपि कुत इत्याह । यतो महौजाः शौर्यातिरेके. णोत्सवमिव रणं प्राप्यापि हृष्यन्नित्यर्थः ॥ औपच्छन्दसकापरान्तिका छन्दः ॥ एकपष्ट इव कोपि कौरवः कोपि पञ्चम इवाथ पाण्डवः । युन्मुदं बहुतिथादिनांदवापैकषष्टितमहायनोपि हि ॥५२॥
५२. कोपि भटो हि स्फुटमेकषष्टितमहायनोप्येकषष्टिपूरैणवर्षोपि कथमप्येकषष्टिवर्षमध्ये युद्धाप्राप्त्या बहुतिथादहूनां दिनानां पूरणादिनाचिरकालादित्यर्थः । युन्मुदं रणहर्षमवाप । यथैकपष्ट एकषष्टेः पूरणः कौरवः सेनान्याख्यो बहुतियादिनायुन्मुदमवाप । अथ तथा यथा पञ्चमः पाण्डवः सहदेवो बहुतिथाहिनाद्युन्मुदमवापैवं कोप्यपरोपि भटः । किल सेनानीः सहदेवश्च कुरुपाण्डवयुद्धे युन्मुदमवापतुस्तच्च युद्धं पाण्डवानां कुरूणां च सर्वेषामपि षष्टितमवर्षानन्तरमेव मिथो बभूवेति भारतम् ॥ रथोद्धता ॥ गणतिथैरिह संघतिथा भटैरमरपूगतिथत्वमयुर्हताः । विरहितेयतिथैः कतिथैश्चमूरिति न किंचिदबुध्यत तत्र तु ॥५३॥ ., ५३. इह रणे संघतिथाः संघानां बहूनां पूरणा भी अयुः प्रापुः । किम् । अमरपूगतिथत्वं पूगानां वहूनां पूरणः पूगतिथोमराणां पूगति
१ ए सी पि कोर'. २ बी 'नादिवा'. ३ ए 'तितथा. ४ ए र्हतः । वि'. १ए °स्तद्दिवा'. २ बी प्यातिह'. ३ सी रणो व. ४ बी युद्धप्रा. ५ बी तिथ्या, ६ ए थाबहू. ७ ए सी णादिना'. ८ सी न्याख्ये ब. ९ सी था ५. १० सी तिम. ११ ए रुवपा. १२ ए देन्मु. १३ बी 'त. १४ बीटा आयुः.