________________
४४६ ब्याश्रयमहाकाव्ये
[कुमारपालः] पौरुषीमिव विलङ्घय हास्तिनी हस्तिमात्रदृषदं नदीमथ । आगतोस्य कथितथुलुक्यरावन्दिभिः पुरुषमात्रफालदैः ॥ ४२ ॥
४२. अथास्यान्नस्य चुलुक्यराडागतो बन्दिभिः कथितः । किं कृत्वा । नदी पौरुषीमिव पुरुपं ऊर्ध्वमानं यस्यास्तामिवं स्नाद्या(गाधा?)मिव विलक्ष्योल्लङ्ग्य । किंभूताम् । हस्त्यूर्ध्वमानं यस्यास्तां हास्तिनीमनाद्या (गाधा?)मपीत्यर्थः । तथा हंस्तिमात्रा दृषदः शिला यस्यां तां महाशिलाभिर्दुलझ्यामपीत्यर्थः । यद्येवं तर्हि कथं व्यलङ्घतेत्याह । यतः पुरुपमात्रफालदैः शीघ्रं जिगमिषया पुरुषप्रमाणान्फालान्ददद्भिः ।।
हास्तिनीम् हस्तिमात्र । पौरुषीम् पुरुषमात्र । इत्यत्र "हस्ति०" [१४१] इत्यादिना वाण ॥ रथोद्धता छन्दः ॥
दोष्णेभहस्तद्वयसेन तालदनं दधद्धस्तफलं च कुन्तम् । आनः पदन्यासविदीर्णहस्तमात्रावनि गमथारुरोह ॥४३॥
४३. स्पष्टम् । किं त्विभहस्तद्वयसेन हस्तिशुण्डाप्रमाणेन । तालदघ्नं तालवृक्षप्रमाणमतिप्रलम्वमित्यर्थः । हस्तफलं हस्तप्रमाणाग्रभागकं च । पदन्यासविदीर्णहस्तमात्रावनिः । अनेनास्यातिबलिष्ठत्वोक्तिरशकुनस्तथा च ॥ इन्द्रवज्रा छन्दः ॥
१४
१ सी हस्तमा. २ ए दृष्चिन्नदी. ३ सी तोथक'. ४ सी दोपेभ.
१ सी थान्न. २ वी पमूदमा'. ३ ए व स्तांद्यामि'. सी व वि. ४ बी स्लायाम. ५ सी हस्तमात्र्यो दृ. ६ बी मात्र्यो दृ. ७बी थं विल'. सी धं विलंध्यते'. ८ ए 'अन्तेत्या . ९ ए णान्फलान्दद्भिः. बीणान्फला. १० ए "म् हास्ति. ११ सी स्पष्टः । किं. १२ बी स्तिसुण्डा. १३ ए लिष्ठः। त्वो. १४ बी स्तवा च.