________________
४४४ घ्याश्रयमहाकाव्ये
[ कुमारपालः] चिल्लः । पिलः।चुल्लम् । अत्र "लिंबा" [३०] इत्यादिना लः। निस्य च चिलपिलचुलादेशाः ॥
उपत्यकाधित्यकयोः । इत्येतो "उपत्यका." [३१] इत्यादिना निपात्यौ । उपजातिः ॥ अविकटाविपटैरिव जाङ्गलैः करटिगोष्ठनियोगिभिराकुलैः । तुरगपगवसन्मयगोयुगाधिकृतिभिश्च विराविभिरैधि सः ॥ ३९ ॥
३९. जाङ्गलैजङ्गलदेशोद्भवैनरैः स चौलुक्यसैन्यकलकल ऐधि वर्धितः । यत आकुलैट्दैिन्यनादश्रवणाक्षुभितैः सद्भिर्विराविर्भिविरसं शब्दायमानः । अविकटाविपटैरिव यथाविकटा अ(उ)रणानां समूहा अविटाश्चावीनां विस्ताराश्चाकुलाः सन्तो विरुवन्ति । किंभूतैः । करटिगोष्ठेपु हस्तिनां स्थानेषु नियोगिभिरायुक्तस्तथा तुरगषगवेष्वश्वर्षगवेषु सन्मयगोयुगेषु शोभनोष्ट्रभेदानां द्वित्वेषु चाधिकृतिभिश्च ॥
अविकटाविपटैः । इत्यत्र "अवे." [१३२] इत्यादिना कटपटौ ॥ करटिगोष्ठ । इत्यत्र "पशुभ्यः" [१३३] इत्यादिना गोष्ठः ॥ सन्मयगोयुग । इत्यत्र "द्वित्वे गोयुगः" [१३४] इति गोयुगः ॥ तुरगषगव । इत्यत्र "पेट्त्वे षड्गवः" [१३५] इति षड्गवः ॥ द्रुतविलम्बितं छन्दः ॥
ढक्कानकशङ्खजोथ धीरैस्तिलतैलेङ्गुदतैलवयवेचि । रणकर्मठभैमिवीर्यशंसी स दिवा तारकितावच्च भीदः॥४०॥ ४०. स्पष्टम् । किं तु धीरैर्निर्भयभटैर्यवेचि । अयं ढक्काजोयं चौ१बी वेत्ति । र. २ ए मणि भीमवी.
१एबी किनात्. २ सी ना नः । वि. ३ बी किनस्य. ४ ए 'लैट्सै'. ५ ए णाक्षुभितैः सर्वि' ६ ए भिर'. ७ बी पटोश्चा. ८ सी छे. त्यत्र पशुभ्यः. ५ ए °षु नि. १० ए घड़ेपु. ११ ए घड़े ष. १२ ए वः । दु. १३ ए चातजो.