________________
४३६ व्याश्रयमहाकाव्ये
[कुमारपालः] साप्तपदीनं सप्तभिः पदैरवाप्यं सख्यं पुषाण पोषय । अद्यप्रातीनधेनुं न्वद्य प्रातर्वा विजनिष्यमाणां धेनुं यथा कश्चित्पुष्णाति । तथाविद्यमानानि षडक्षीण्यस्मिन्नषडक्षीणस्तस्मिंस्त्वां मां च विनान्येन केनाप्यज्ञात इत्यर्थः । इहै कृतपूर्व मत्र आश्वलंकर्मणेलंकर्मीणः समर्थों भवामुं मदीयं मन्त्रमविलम्ब कुर्वित्यर्थः ॥ इन्द्रवज्रा छन्दः ॥ रुदितमिव वचोस्याशितंगवीने न समीचीनममंस्त राडुदीच्याः । सम्यग्भेदितयैव मन्यमानः सचिवं सोश्वतयाँश्वकानिवोच्चैः॥२९॥
२९. उदीच्या उत्तरस्या दिशो राडान्नोस्यामात्यस्य वचः समीचीनं युक्तं नामस्त । यथाशिंता गावोस्मिन्नाशितंगवीनमरण्यं तस्मिन्नुदितं निष्फलत्वात्समीचीनं लोको न मन्यते । यतः कीदृक् । सचिवं सम्यनिश्चितं भेद(दि)तयैव भेदोस्यास्ति भेदी तद्भावेनैव भैमिना भेदितमेवेत्यर्थः । मन्यमानः । यथा कश्चिदुच्चैरुलतानश्वकानश्वकाख्यानश्वसदृशान्पशुभेदानश्वस्य प्रतिकृतीः काष्ठादिमयान्प्रतिच्छन्दकान्वा भ्रान्याश्वतयाश्वा अमी इति मन्यते । अनेनोपमानेनान्नस्य भ्रान्ततासूचि ॥
अभ्यमित्रीये । अभ्यमिध्यः। अभ्यमित्रीण । इत्यत्र "अभ्य मित्रमीयश्च" [१०] इतीययेनाः॥
१ए °चोस्यशि. २ बी स्यासितं . सी स्यासितग'. ३ बी सी ग्भेदत. ४ बी यास्वका.
१ए वा विन. २ बी सी स्तस्मिस्त्वां. ३ सी इत्यकृ. ४ सी कमीणोलं. ५ बीमणोलं. ६ बी रस्यां दि. ७ सी राजानो'. ८ सी 'नं लोको. ९ बी शितगा. १० बी शानशु. ११ ए बी कृतीका. १२ बी काष्ठम. १३ बी न्याश्वा इमी. १४ ए सी मित्र्य । अं.