________________
४३४
व्याश्रयमहाकाव्ये
[कुमारपालः ]
२५. हे धरणिधव राजन हे नयाब्धेः पारीण नीतिशास्त्रसागरपारगामिन्नत एव हे अनयसरिदवारीणानावारनद्या अर्वाग्भागगामिन्यायनिष्ठ ते तव गुरवः पूर्वजा अरिविजयादिह जगति पारावारणमधिगामि यशो जगृहुः । किं कृत्वा । चुलुकैः सह सदा संधाय । कैः कैः कृत्वा । यथाकामीना यथाकामं गच्छन्तस्तथोर्जन्तो बलिष्ठा ये करिणस्तैस्तथानुकामीना अनुकामं यथेच्छं गच्छन्तो ये तुरगास्तैस्तथात्यन्तीना अत्यन्तं गामिनो य उष्ट्रास्तैश्च हस्तितुरगोप्रदानेनेत्यर्थः । एतेन चुलुकैः सह संधाने तेषामरिविजयोत्थं यशः फलमुक्तम् ॥ शिखरिणी छन्दः ॥
अवारपारीणमुदन्वतस्तद्यशो निजानां द्युपथाध्वनीनम् । हारि त्वया मानुगवीनबुद्ध्या भैमिं नयाध्वन्यममुं विराध्य ||२६||
।
२६. हे राजन्निजानी पूर्वजानां तचुलुकैः संधानेनारिविजयोत्थं यशस्त्वया मा हारि मापनायि । कीदृशम् । उदन्वतो धेरवारपारीणमर्वाग्भागपरभागयोर्गामुकं तथा द्युपथाध्वनीनं स्वर्गमार्गे पथिकतुल्यं स्वर्गगामीत्यर्थः । किं कृत्वा । नयाध्वन्यं न्यायमार्गपथिकममुं भैमिं विराध्यं विरोध्य । कया कृत्वा । अनुगवीन बुद्ध्या गवां पश्चादनुगु तदलंगाम्यनुगवीनो गोपालस्तस्य या बुद्धिस्तयानुचितयुद्धविषयया मूर्खबुद्ध्येत्यर्थः ॥ यथाकामीन | अनुकामीन । अत्यन्तीन । इत्यत्र " यथाकाम ० [ १०० ] इत्यादिनः ॥
39
पारावारणम् । पारीण । अवारीण । अवारपारीणम् । इत्यत्र "पारावारं ०" 1 [ १०१ ] इत्यादिनेनः ॥
१ सी 'धर रा.
सी धानात्तेषा'. र नापायि.
२ सी ह सं. ३ सीयन्त गा. ४ बी 'धानते. ६ सीनां तच्चलैः सं ७ सी
९ सी ध्यक.
५ सी 'न्दः । आवा.. ८ बी मार्ग.