________________
[ है. ७.१.९४.] अष्टादशः सर्गः।
४३१ स्तर्हि किमित्यारेत्याह । यतः स्वदेशप्रालुः स्वदेशस्य कष्टमसहमानः । एतेन त्वया विरोद्धोयमत्रागादित्यस्य न्यायित्वमुक्तम् ।। हि मेलु । इत्यत्र । “हिमाद्" [९०] इत्यादिना-एलुः ।। बलूल । वातूल । इत्यत्र "बल." [९१] इत्यादिनोलः ।। शीतालुः । उष्णालुः । तृप्रालुः । अत्र "शीत." [१२] इत्यादिनालुः ।। यथामुखीने । संमुखीनः । अत्र “यथा." [१३] इत्यादिनेनः ॥ उपजातिः ॥
अयं मे सेवाद्यर्थमत्रायात इति न वाच्यं यतः । स सर्वपत्रीणकसर्वकर्मीणपत्तिकः सर्वपथीननागः । द्राक्सर्वपात्रीणधनोस्ति सर्वाङ्गीणप्रभः प्राग्भवदाज्यपेक्षी॥२२॥
२२. स भैमिाक्प्राक्पूर्व भवदाज्यपेक्षी तव संग्राममपेक्षमाणोस्ति । चेत्त्वं रणं प्रारब्धवांस्तदायमतितरां रणकरणे प्रगुण एवास्त इत्यर्थः । यतः सर्वपत्रीणका अज्ञाताः सर्वपत्राणि व्याप्नुवन्तः सर्ववाहनारोहणशक्ता इत्यर्थः । सर्वकर्मीणाः सर्वकर्माणि व्याप्नुवन्तः सर्वकार्यकरणक्षमाश्चेत्यर्थः । पत्तयः सेवका यस्य सः । तथा सर्वपथीना वहीयस्त्वात्सर्वान्पथो व्याप्नुवन्तो नागा गजा उपलक्षणत्वादश्वा रथाश्च यस्य सः । एतेन सर्वसैन्यसंपदुक्तिः । तथा सर्वपात्रीणं वंहीयस्त्वात्सर्वाणि पात्राणि देवस्थानानि व्याप्नुवद्धनं यस्य सः । एतेन कोशसंपदुक्तिः । तथा सर्वाङ्गीणा सर्वाङ्गं व्याप्नुवती प्रभोत्साहादिसंपदुद्भवं तेजो यस्य सः ।।
१ एज्यपक्षी. २ बी क्षी । तव.
१ वी सी तृष्णालुः.२ सी°लुः यथा'. ३ ए ने। हंमु. ४ सी भैमिः प्राकपूर्व द्राक् भं.५ बी पेक्ष्यमा ६ सी सः । यथा. ७ एथीनां वं. ८ सीर्वाणि पत्रा'. ९ए 'त्रीणां वही . १० सी तेनास्य सं. ११ वीङ्गिव्या. १२ एनीणां स.