SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः भूमिमारिथागतः। किंभूताम् । आश्वीनां सीमसंधिवर्तित्वेन निकटत्वादश्वस्यैकेनाहा गम्यां तथा करीरकुणपीलुकुणास्पदं करीरपाकपीलुपाकस्थानम् । किंभूतैः । सुजात्यत्वेनोदूर्खानि यानि कर्णजाहानि कर्णमूलानि तथा विनमन्ति नम्राणि यानि च मुखजाहानि मुखमूलानि तै रम्यैस्तथा शोभना पक्षतिः पक्षमूलं यस्य स यः पक्षी तद्वजवो वेगो येषां तैः । [जेरैः सहासतो विरोधस्य प्रथमत उत्थापकत्वात्त्वां जनोपवदतीत्यर्थः ॥ . आश्वीनाम् । अत्र “अह्ना०" [८५] इत्यादिनेनञ् ॥ कौलीनम् । अत्र "कुलाजल्पे" [८६] इतीनञ् ॥ पीलँकुण । करीरकुण । इत्यत्र “पील्वादेः०" [८७] इत्यादिना कुणः ॥ कर्णजाह । मुखजाह । इत्यत्र “कर्णादे०" [८८] इत्यादिना जाहः ॥ पक्षति । इत्यत्र “पक्षात्तिः" [८९] इति तिः ॥ अन्यच्च । हिमेलुवातूलबलूलसैन्यः शीतालुरुष्णालुरमर्पतोसौ । स्वदेशत्प्रालुरिहार भैमिर्यथामुखीने त्वयि संमुखीनः ॥२१॥ २१. त्वयि यथामुखीने संमुखमैत्रागते सत्यसौ भैमिः कुमारपालोमर्पतोमर्षात्संमुखीनः संमुख इह त्वत्समीप आराययौ । कीहक्सन् । हिमेलु वातूलं बलूलं च हिमं शीतं वातं लूकादि बलं परवलं च सहमानं सर्वसहमित्यर्थः। सैन्यं यस्य स तथा शीतालुरुष्णालुः शीतोष्णयोरसहोप्यतिसुकुमारोपीत्यर्थः । यद्येवं सुकुमार १ ए मेलवा. २ बी शीलालु'. ३ सी तृष्णालु'. १ सी संबन्धव. २ बी क्षति प. ३ बी गूजरैः. ४ बी लुकण. ५ ए रकण. ६ सी न्यथा । हि. ७बी मत्र ग. ८ बी रहसोप्य'. ९ए 'तिक
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy