________________
[है. ७.१.८५.]
अष्टादशः सर्गः।
४२९
तिलकटं तदुमाकटं वा तदत्यल्पीयस्त्वेन प्रसिद्धं भङ्गानां तिलानामुमानां वा रजोप्यलावूकटांशमपि वालाबूकटस्य तुम्बकरजसोशमैपि वा कः शत्रुर्विगृह्य विग्रहं कृत्वेप्सति । त्वत्तः समर्थस्य राज्ञोभूतत्वान्न कोपीत्यर्थः ॥ मौद्गीन । इत्यत्र “धान्येभ्य ईनन्" [७९] इतीनञ् ॥ हेय । शालेय। इत्यत्र “नीहि." [ ८० ] इत्यादिनैपञ् ॥ यव्य । यवक्य । षष्टिक्यम् । अत्र "यव०" [ ८१] इत्यादिना यः ॥ अणज्य आणवीनम् । माष्यं माषीणम् । अत्र "वाणुमापात्" [८२] इति वा यः । पक्ष ईनञ् ॥
उम्य औमीन । भङ्गय भाङ्गीनम् । तिल्य तैलीनम् । अत्रं "वोमा०"[८३] इत्यादिना वा यः॥
अलाबूकट । उमाकटम् । भङ्गाकटम् । तिलकटम् । अत्रं "अलाब्वाश्च." [८४ ] इत्यादिना कटः ॥ वसन्ततिलका छन्दः ॥ एवं च तव केनापि किमपि नापराद्धमित्युक्तम् । ततश्च किमित्याह । कौलीनमस्ति यदु गूर्जरविग्रहाया
श्वीनां करीरकुणपीलुकुणास्पदं माम् । उत्कर्णजाहविनमन्मुखजाहरम्यै
वहिस्त्वमारिथ सुपक्षतिपक्षिवेगैः ॥ २०॥ २०. हे राजस्तत्कौलीनं कुलस्य जल्पो लोकापवादोस्ति यत्त्वं वाहैरश्वैः कृत्वा गूर्जरविग्रहाय कुमारपालविग्रहणार्थ क्ष्मां मरुदेश
१ ए रगुण'. २ ए पीलगुणा'. सी पीलकु.
१ ए ° वा. २ बी लानां मुनीनां. ३ सी °पि कःकः. ४ सी °ति । ततः स. ५ए सी धानेभ्य. ६ बी भ्य इत्यनिती'. ७ बी सी दिनेय. ८ए व्यं । भ. ९बीत्र वामा. १०बी ला. ११ बी स्वत्कोली'.