________________
[है. ७.१.५५.] सप्तदशः सर्गः।
४१५ स्यास्ति प्रबुध्यत इत्येवंशीलो वा प्रबोधी तस्य भावः प्रबोधित्वं तद्वतो जागरूकस्य धीमतश्च सतो राज्ञः कुमारपालस्य । अथ चन्द्रास्तानन्तरं प्रबोधिता जागरणं प्रयाणकविषया बुद्धिश्च ।। डित्थत्वराजपुरुषत्वधनैरबालि.
श्यागाडुलीकमजिरं नृपतेरभाजि । प्राची तमोगडुलतां हरता च सद्यो
देवेन चक्रगडुलत्वविमोचनेन ॥ १३८ ॥ १३८. डित्थत्वराजपुरुषत्वे धने येषां तैर्डित्यादिसंझै राजपुरुषैः कर्तृभिरित्यर्थः । नृपतेः कुमारपालस्याजिरमावासभूमिरभाजि । राज्ञः सेवार्थमाश्रितम् । कीदृशम् । अबालिश्यं बालिशानामभावाद्वालिश्येन मौर्येणे रहितं च तदगाडुलीकं च कालुष्यवतामभावाद्गाडुत्या कालुष्येण रहितं च तत् । तथा तेन देवेन च रविणा च सद्यः प्राची पूर्वाभाजि । उदितमित्यर्थः । कीदृशा सता । तमोगडुलती ध्वान्तकृतं कालुष्यं हरता । तथा चक्रगडुलत्वविमोचनेन चक्रवाकाणां विरहव्यथाकृतस्य चित्तकालुब्यस्य त्याजकेन ॥
जातिवचनेभ्यो जातौ । गोत्वम् । गोता ॥ गुणशब्देभ्यो गुणे । शुक्लत्वम् । शुक्लता ॥ समासासंबन्धे । राजपुरुषत्व ॥ कृतस्तद्धिताच्च संबन्धे । प्रबो. धित्व । प्रबोधिता ॥ डिस्थादेः स्वरूपे । डित्थत्व । इत्यत्र "भावे त्वतल"
१ बी बालेश्या'.
१ए बोधां त'. २ ए चितत्वं. ३ सी धीतमश्च. ४ सीमावस्याभू. ५ सी °णरणरहेि. ६ बी भिांजि. ७बी तां ध्वांक्षकृ. ८ए चित्तः का. ९सी गोता. १०५ °धिताः । दि. ११ बीरूपा हि.