________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
१२७. स्पष्टः । किं तु वृष्ण इन्द्राय । मैरेयो मद्यम् ।। राजे आचार्याय ब्राह्मणाय वृष्णे हिताः । अत्र "तस्मै हिते" [३५] इति प्राप्त ईयो "न रोज." [३६] इत्यादिना न स्यात् ॥
वाणिनीमणितैः कण्यमुमुदे कामिनां गणः । रथ्यवृष्यखल्यतिल्यमाष्ययव्यैरिवेतरः ॥ १२८ ॥ १२८. स्पष्टः । किं तु वाणिनीमणितैश्छेकानां मत्तानी च स्त्रीणां रतकूजितः। कण्यः कर्णेभ्यो हितैः सुखदैः । रथाय हितो रथ्यः सममार्गस्तथा वृषेभ्यो वृषभेभ्यो हितो वृष्यो बुसादिर्यद्वा वृषाय मैथुनाय हितं वृष्यं भीरपाणं तथा खलाय हितं खल्यमग्निरक्षणं तथा तिलेभ्यो हितस्तिल्यो वातस्तथा माषेभ्यो हितो माष्यो वातस्तथा यवेभ्यो हितो यव्यस्तुषारो द्वन्द्वे एतैः कृत्वा यथेतरो ग्राम्यलोको रथ्यार्थिवान्मोदते ॥
मानं मत्तापि नौज्झत्काप्यजथ्याविथ्यवृत्तयः । ब्रा(?)मण्याश्चारकीणा माणवीना वा भवन्ति किम् ॥१२९।। १२९. काप्यतिमानिनी स्त्री मत्तापि मानं नौज्झन् । युक्तं चैतत् । यतो ये ब्रह्मणे ब्रह्मचर्याय ब्राह्मणाय वा चरकेभ्यो द्विजभेदेभ्यो माणवेभ्यो वा हिता भवन्ति धार्मिकाः स्युरित्यर्थस्तेजेभ्यश्छागेभ्यो हिता अजध्या अजापालास्तथाविभ्य ऊ(उ?)रणेभ्यो हिता अविध्या अविपाला द्वन्द्वे तेषामिव वृत्तिापारो येषां ते निर्धर्माः किं भवन्ति ॥
१ एपि नोझ. १ए य । मेरे'. २ ए हिता . ३ ए राज्य इ. ४ सी नां स्त्रीणां चर'. ५ बी ततस्त'. ६ बी °पि मौनं. ७ एभ्यो द्विजमेदेभ्यो मा. बी सी 'भ्यो वा. ८ ए भ्यश्चागे'. ९बी तिव्यापा'.