SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०७ [हे० ७.१.२७.] सप्तदशः सर्गः। पूर्वतोधिकं मद्यपानकालाद्यत्पूर्वमातिथ्यं तस्मादतिरिक्तम् । यथा हल्यादेकस्माद्धलकर्षाद्यत्फलं स्यात्ततोधिकं द्विहल्यातो द्वयोहलयोः कर्षात्सकाशाल्लोका आसादयन्ति ।। पाचम् । अर्घ्य । इत्येतो "पाचार्ये" [२३ ] इत्यनेन निपात्यो । आतिथ्यम् । अत्र "ण्योतिथेः" [ २४ ] इति ण्यः ॥ हल्यात् । इत्यत्र "सादश्चातदः" [२५] इत्यधिकाराद् द्विहल्यातः । इत्यत्र च "हलस्य कर्षे" [ २६ ] इति यः ॥ आमिक्षीयमनामिक्ष्याद्विसीत्यं सीत्यतो यथा । अत्यशेत प्रियागण्डूषांसवश्वषकांसवात् ॥ १२३ ।। १२३. चषकासवाचषकेभ्यः प्राप्तान्मद्यात्सकाशात्प्रियागण्डूषासवः प्रियामुखेभ्यः प्राप्तं मद्यमत्यशेत । प्रेमातिशयोल्लासकत्वेन प्रियाणामतिसुस्वाद्वभूदित्यर्थः । यथा शृते क्षीरे दधि क्षिप्रमामिक्षा तस्यायिदं दध्यामिक्षीयमनामिक्ष्यात्सकाशादतिशेते । यथा वा द्विसीय सीता लागलपद्धतिः। सस्यं वा द्वाभ्यां सीताभ्यां संगतं क्षेत्रं सीत्यत एकयों सीतया संगतात्क्षेत्रादतिशेते ।। ओदनीयैर्यथौदन्यमपूपीयमपूप्यकैः । तन्दुल्यं तन्दुलीयैर्वा स्त्रीणी मद्यैर्मदोवृधत् ॥ १२४ ॥ १२४. स्त्रीणां मथैर्मदः श्रीवतावृधत् । यथौदन्यमोदनायेदं १ ए धावसच. २ ए कावसात्. ३ बी यथोद. ४ ए णां माथै'. १ सी पानाद्य. २ बी हल्यांतोईयो'. ३ ए तोधिक द्विहल्यातो द. ४बी अर्घ । इ. . ५ सी यमेतो. ६ सी द्या ई. ७ ए बी चकषास'. ८सी शादतिशेते ।. ९ बी णामिति. १० ए “मिक्षात्स. ११ ए शा. दतिशाद. १२ सी °या सं. १३ बी यथोद'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy