________________
व्याश्रयमहाकाव्य
[कुमारपाला
सांयुगीनमनङ्गस्य काथिकं गौणिकं मधु । देवानां देवदेवत्यं पुष्ट्य हविरिवाभवत् ॥ १२१ ॥ १२१. मधु मद्यमनङ्गस्य पुष्ट्यै पोषायाभवत् । यतोनङ्गस्य काधिकं कामोद्दीपकत्वेनानङ्गकथायां साधु । तथानङ्गस्य गौणिकं गुण उपकारे माधपकारकं तथानङ्गस्य मांयुगीनं संयुगे रणे माधु । देवदेवत्यं हविरिव । देवताशब्देन देवम्य हविरादेः प्रतिगृ(ग्रहीता स्वामी संप्रदानमुच्यते । देवाश्च ते देवताश्च ताभ्य इदं हव्यं यथा देवानां पुष्ट्यै स्यात् ॥
सार्वजन्यः । सार्वजनीन । इत्यत्र "सर्व." [१९] इत्यादिना ग्य ईनञ्च ॥
प्रातिजनीन । सांयुगीनम् । अत्र "प्रति." [२०] इत्यादिनेनन् । काथिकम् । गौणिकम् । अत्र "कथादेरिकण्" [२१] इनीकण् ॥ देवदेवत्यम् । अत्र "देवता." [ २२ ] इत्यादिना यः ॥
नदार्घ्यपाद्यमातिथ्यं प्रियाभ्यः पूर्वतोधिकम् ।
आसेदुः कामिनो हल्याविहल्यातः फलं यथा ॥ १२२ ॥ १२२. नंदा मद्यपानकाले कामिनः प्रेयसीनां स्मरातुरतया प्रियाभ्यः सकाशादासेदुः प्रापुः । किमित्याह । आतिथ्यम् । किमातिध्यमित्याह । अर्घ्यपाद्यमर्घः पूजोपचारस्तस्मायिदमयं स्रग्विलेपनादि तथा पादायेदं पाद्यमुदकादि । द्वन्दे तत् । कीदृशमासेदुः ।
१बी काविका . २ बी मेदु का'. १ए 'स्य सं. २ बी न हे देवस्य. ३ सी देवस्य. ४९ देता. ५ बी इदह. ६ सी जनीं. ७ सी नता । सां'. ८ वी कायिक. ९ए देनेयः. १० ए तथा म. ११बी पाने का १२ सी किमि':