SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ [ई०७.१.१९.] ममदशः सर्गः । ११९. स्त्रियः पार्षदेषु पर्षदि सभायां साधुषु विचक्षणेष्वित्यर्थः । प्रियेषु विषये पारिषद्यं सभायामनुचितं ग्राम्यं वचो मदवशान्नोचिरे । यतः पार्षद्या विचक्षणाः । सदा सदभ्यस्तसभ्यवचना इत्यर्थः । किं कृत्वा । पारिषदैः प्रियैः सह हालां पीत्वापि । किंभूताम् । भक्त ओदने माधुर्भाक्तो यः शालिस्तम्माद्भरुत्पनिर्यम्यास्ताम् | हाला हि शालिपिष्टक्षेपेण संधीयते ॥ 3 भाक्त । इत्यत्र “भक्ताण्णः " [ १७ ] इति णः ॥ पार्षद्याः । पार्श्वदेषु । इत्यत्र "पर्षदो यणी" [ ८ ] इति ण्यणौ ॥ परिष दोपीच्छन्त्यन्ये । पारिषद्यम् । पारिषदैः ॥ ४०५ जितोप्या स्यैः शशी सार्वजन्यः सार्वजनीनगुः । अचिचेष्टन्मदाचेष्टाः सतां प्रातिजनीनता ।। १२० ।। १२०. शशीन्दुरास्यैः कृत्वा स्त्रीभिर्जितोपि मँदाचेष्टा अतिरिक्तमद्यपानोत्थक्षीबतया निश्चेतनीभूताः स्त्रीरचिचेष्टत् । शीतकिरणैर्मदस्योपशमनात्स चेतनी चक्रे । कीदृक्सन । सार्वजन्यः सर्वजनेषु शत्रुध्वशत्रुषु चाह्लादकत्वात्साधुस्तथा सार्वजनीनाः सर्वजनेषु साधवो गावः किरणा यस्य सः । अथ च यः सार्वजन्यः सज्जनः स्यात्स सर्वजनीना गावो वाचो यस्य स तथा स्यात् । युक्तं चैतं । यदास्यै こ र्जितोपि शशी स्त्रीरचिचेद्यतः सतां माधूनां प्रातिजनीनता प्रत्य र्थिनो जनाः प्रतिजनाः शत्रवस्तेष्वपि साधुता स्यात् ॥ १ बी साज.. १ सीवा । परि°. २ए सीधी ३ बी ते । भोक्त. ४ बी पा रिषदे. ५ सी महाविष्टा ६ बी 'शमात्स. ७ बी त्रुषु . सी त्रु आहा.. बी 'सर्व' बीत् । यादा १० सी 'नां प्रीति ११ बी सी 'नताः प्र. ८.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy