________________
[है ० ७.१....
ममदशः सर्गः ।
धनी धेनुष्यया धर्यो गार्हपत्ये न ना यथा ।
नदी नाव्यै जलेर्वासां क्रीडयामीयत सरः ॥ ११६ ॥ ११६. आसां स्त्रीणां क्रीडया मद्यपान केल्या स्मरोप्रीयत विज़म्भित इत्यर्थः । यथा धेनुष्ययाधमर्गेनोत्तमाय ऋणप्रदानादोहाथ धेनुर्दीयते सा धेनुरेव धेनुध्या पीतदुग्धेति यस्याः प्रसिद्धिस्तया कृत्वा धनीश्वर उत्तमर्णः प्रीयते । यथा वा गाई पत्येनाग्निभेदेन कृत्वा धो धर्मादनपेतो धार्मिको ना नरः प्रीयते । यथा वा नाव्यैः वा तायें जलैः कृत्वा नदी प्रीयते विजृम्भत इत्यर्थः ॥
विष्यः कोपीति न न्याय्यमर्थ्य मत्यमिति स्मरन ।
गुडकल्पेन ताः कामो मद्यास्त्रेणाक्षिपत्ततः ॥ ११७ ।। ११७. ततो विजृम्भणानन्तरं कामो गुडकल्पेनेषदपरिसमाप्तगुडेन प्रायो गुडमयेनेत्यर्थः । मद्यास्त्रेण कृत्वा ता अङ्गना अभिपन्निरा. चक्रेहन्नित्यर्थः । यतः म्मरन । किमित्याह । कोपि शत्रुरपि विष्यो विषेण वध्य इत्येतनाच॑मर्थादर्थशास्त्रादनपेतं न । यो गुडेनापि म्रियते स शत्रुरपि विषेण न वध्य इत्युक्तेरिदं नीतिशास्त्रोत्तीर्णमित्यर्थः । अत एवं न न्याय्यं न युक्तमत एव च न मन्यं मतम्याभीष्टस्य करणं न कस्याप्येतन संमतमित्यर्थ इति ।। धन्या । गण्या । इत्यत्र "धन." [९] इत्यादिना यः ।।
१ए नाध्यैर्जलेवासां. २ बी व्यंजलै'. ३ सी वास की.
१ ए केल्यां स्म'. २ बी मणीया क्र. ३ ए नादौहा. ४ बी को न. ५ ए नान्येनावा. ६ बी ताज'. ७ ए 'ये जलैः. ८ ए °ल्पनैप'. ९ ए त्वा . १० बी “पि मृयते स सत्रु. ११ ए रेदानीति'. १२ ए व न्या. १३ ए गणा। ई.