SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०२ व्याश्रयमहाकाव्ये [कुमारपालः] धन्या गण्यानेवातुल्यं हृद्यपथ्यं नै मध्वधात् । जिज्ञासुः प्रेयसो भावं मधुवश्यस्य काचन ॥ ११४ ॥ ११४. काचन मधु मद्यं नाधान्नापिबन् । कीदृग । हृद्यपथ्यं हृद्यं हृदयस्य प्रियमपि पथ्यं रोगोपशमकमपि तथातुल्यं पेयवस्तुषु मध्ये. त्युत्कृष्टमपि । यतः कीदृशी । मधुवश्यम्य मत्तस्य प्रेयसो भावमनुरागविषयमभिप्राय जिज्ञासुः । यथा धन्या धनं लब्ध्री वेश्या गण्या च गणं पुरुषसमूहं लन्ध्री कुलटा चाना चान्नं धान्यं लब्ध्री दासी च पुरुषस्य भावं जिज्ञासुः सती मधु न पिबति ॥ अमूल्यपद्यकस्तूरीलेखां नु लुलितालके।' अतिजन्यवयस्यास्ये चक्रे हाला मृगीदृशाम् ॥ ११५ ॥ ११५. हाला सुरा मृगीदृशामास्य मुखेषु लुलितालकैर्मत्ततावशेनेतस्ततो लुंठितैश्वर्णकुन्तलेः कृत्वा चक्रे । काम् । अमूल्या मूल्यं विनों सुधिकयैव(?) संपन्नत्यर्थः। तथा पदमस्यां दृश्यं पद्या नातिद्रवा नातिशुष्केत्यर्थः । या कस्तूरी तस्या लेखों नु मण्डनविच्छित्तिमिव । अत एव कीदृग् हाला । अतिजन्यवयस्या जनीं 'वधूं वहन्ति जन्या जामातुः स्निग्धा वयस्याः सख्यो द्वन्दे ता अतिक्रान्ता तत्तुल्येत्यर्थः । जामातृवयस्याः स्वसख्योपि हि वधूमुखेषु कस्तूरीलेखां कुर्वन्ति ।। १ सी धन्यग'. २ ए 'थ्यं मम'. ३ बी न वं. ४ बी खां तु लु. १ ए कापि म. २ सी यम'. ३ सी ल्यं प्रेय. ४ बी प्राय जि. ५ बी नं वे'. ६ए चान्न धा. ७ ए भाव जि. ८ बी मुख्येपु. ९सी 'खेप्युललि'. १० ए सी लुचिते. ११ एना मुधि. १२ सी मस्य दृ. १३ ए सी तस्यां ले'. १४ बी खां तु म. १५ ए सी वधू व. १६ सी न्ता तुल्ये'. १७ सी रीतिले'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy