________________
[ है. ७.१.१.] सप्तदशः सर्गः। द्भिर्यजमानैत्विकर्मार्हर्जित्विग्भिरेव वा संकुच्य स्थीयते । कीदृशैः सद्भिः। कूपप्रवेशनमर्हति कौपीनः । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । अपगतं कौपीनं चीवरखण्डं येषां तेपकौपीना नग्ना अत एव लज्जया शालीनाः शालाप्रवेशमहन्तो ये तैः ॥
छैदिकः । भैदिकः । अत्र “छेदादेर्नित्यम्" [ :८२ ] इतीकण् ॥ वैराशिकः । अत्र "विरागाद्विरङ्ग" [१८३] इतीकण विरागस्य विरजच ॥ शीर्षच्छेद्यः शैषच्छेदिक । इत्यत्र “शीर्ष०" [ १४५ ] इत्यादिना वा यः ।
शालीनैः । कौपीन । आखिजीनैः । एते "शालीन." [ १८५ ] इत्यादिना निपात्याः ॥
चतुर्विंशः पादः ॥ गोविन्दोर्युग्यधुर्येषु द्विरथ्येष्विव हारिषु । प्रासङ्ग्या नु भधौरेया न धौरेयकतां दधुः ॥११०॥
११०. इन्दोर्गोषु कान्तिषु हारिषु दीप्रतया मुख्येषु सत्सु मधौरेया धुरं यानमुखं भारं वा वहन्ति धौरेया मुख्यवृषभा उपचारा. दन्येपि मुख्या उच्यन्ते । भेषु नक्षत्रेषु धौरेया दीप्रतया मुख्याः शुक्रादयो धौरेयकतां मुख्यतां न दधुः । इन्दुकनिस्तेजसोभूवनित्यर्थः । यथा प्रासङ्गयाः प्रासङ्गो यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते तद्वहन्तो दम्यवृषा धौरेयकतां मुख्यवृषभतां न दधति । केषु सत्सु । गोषु वृषभेषु । कीदृक्षु । द्विरथ्येषु बलिष्ठत्वाही रथौ वहत्स्वत एव युग्यानां युगं वहतां वृषाणां मध्ये धुर्येषु मुख्येषु ॥
१सी शैः। कू'. २ एवरेणे. ३ सी शनम'. ४ एहस्य । शी. ५ सी ते शलीत्या. ६ सी भधोरेया मुख्य". ७ए तयं म. ८ बी दून्य. ९एतां नृपाणां. १० सी वृषभाणां.