SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ख्याश्रयमहाकाव्ये कमारपाल:]. दशकेषु दशद्वर्गो यथा पश्चत्सु पञ्चकः । तथा शशिकरेष्वन्तर्बभूव ज्योतिषां प्रभा ॥ १०४॥ १०४. दशमानमेषां तेषु दशकेषु वर्गेषु मध्ये दशद्वर्गो दशसंख्यामान एकः समूहो यथा यादृशोल्पत्वेनालक्ष्यः स्याच्छशिकरेष्वन्तर्मध्ये ज्योतिषां ताराणां प्रभा तथा तादृश्यलक्ष्या बभूव । शिष्टं स्पष्टम् ॥ पञ्चत्सु । दशत् । इत्येतो "पञ्चद्" [ १७५] इत्यादिना निपात्यो वा ॥ पेक्षे । पञ्चकः । दशकेषु ॥ विंशस्तोमविदां मत्रैर्यज्ञियानां नु शीतगोः । आभिषेचनिकस्योर्दण्ड्यं वध्यं तमोद्रवत् ॥ १०५॥ १०५. तमोद्रवदनश्यत् । कीहक्सत् । शीतगोरिन्दोः किरणैः कृत्वा दण्ड्यं वध्यं च निग्रहं हिंसां चाहत्। कीदृशस्य । आभिषेचनिकस्य सकलपृथ्व्याह्लादकत्वादभिषेचनं राज्याभिषेकमहतः। योप्याभिषे. चनिको राजा तस्य दण्ड्यो वध्यश्च संस्तमस्तुल्यश्चौरादिर्भयेन नश्यति । यथा यज्ञो नाम क्रियासमुदायः कश्चित् । तदभिव्यङ्गयं वापूर्वमित्याहुस्तमहतां यजमानानां तमः पापं द्रवति। कीहक्सत् । विंशतिऋचो मानमस्य विंशो यः स्तोम ऋक्समूहस्तं विदन्ति ये तेषामृत्विजां मन्त्री कृत्वा यागकाले दण्ड्यं वध्यं च ॥ विंशस्तोम । इत्यत्र "स्तोमे ट्" [१] इति । १ ए प्रभाः । द. २ ए गोः । अमि'. ३ बी ड्यं बध्यं. १ सीकरीधान्त. २ ए ना पा. ३ बी पक्षं । प. ४ ए 'रुस्तो कि. ५ ए श्वादि. ६ ए पूर्वामि'. ७ ए 'नस्स. ८ ए °स्य विशो. १बी विंशतो यः. १० सी शो य स्तो'. ११ एट् । अभि'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy