________________
[है. ६.४.१७४.] सप्तदशः सर्गः ।
३९५ पञ्चका नु शकुनयः काप्युड्डीय तमांस्ययुः । इन्दौ निदधति व्योनि विंशतिं त्रिंशतं करान् ॥१०२।। १०२. पञ्चेति संख्या मानमेषां पञ्चैवे वा पञ्चका नाम शकुनयः पक्षिणो यथा काप्युड्डीय यान्ति । शिष्टं स्पष्टम् ॥
पञ्चकाः । अत्र "नानि" [१७२ ] इति कः ॥ विंशतिम् । त्रिंशतम् । एतौ "विंशत्यादयः" [ १७३ ] इति निपात्यौ ।
ब्राह्मणैाह्मणाशचात्वारिंशैरिवानधैः ।
जहषुर्यज्वनां पत्युरोषधिद्योतिभिः करैः ॥ १०३ ॥ १०३ यज्वनां पत्युरिन्दोः करैः कृत्वा ब्राह्मणा ऋत्विजो जहषुः । यत ओषधिद्योतिभिः सोमवल्ली नाम महौषधी यदेन्दुः क्षीयते तदा प्रतिदिनमेकैकपत्रपातेन क्षीयते । यदा विन्दुर्वर्धते तदासौप्येकैकपत्रवृद्ध्या वर्धते । सा च यागेपु महोपकरणमिति ऋत्विग्भिर्गिरिषु गवेष्यमाणासौ चन्द्रांशुभिः प्रकाश्यत इत्य॒त्विजां हर्ष इत्यर्थः । यथा ब्राह्मणैर्वेदविशेषैः कृत्वा स्वसिद्धान्ततया ब्राह्मणा हृष्यन्ति । किंभूतैः । त्रिंशचत्वारिंशञ्चाध्याया मानमेषां तैस्तथानधैर्निष्पापैः ।। त्रै(?) च्चा(चा!) त्वारिंशैः। एतौ "त्रैश." [१७४] इत्यादिना निपात्यौ ।
१५ का मु श. २ एयः काप्यु'. ३ ए सी शचत्वा'. ४ बी जहर्षुर्यज्वानां.
१ सी चैवं प. २ बी व प. ३ ए °नय प. ४ सी °न्ति । प. ५ ए शति । त्रि. सी शतं । त्रि. ६ बी यज्वानां. ७ ए रिन्दों क. ८ बी हुषु । य°. ९ए कैप. १०९ °दा साप्ये'. ११ बी इत्यत्वि'. १२ ए 'शत्वाध्या. १३ ए सी पैः । त्रिश. १४ बी शञ्चत्वा. सी 'शव्यत्वा'. १५ ए 'नो त्रैश.