________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
पञ्चकैः । अष्टकं वासः । भष्टके । अत्र "सोस्स० [१६] इत्यादिना यथा. विहितं कः ॥ द्रौणिकी । इत्यत्र "मानम्" [ १६९ ] इतीकण ॥
द्विषाष्टिका वरस्तोत्ररष्टिकाधीतयोष्टकैः ।
बन॑न्तः पञ्चकान्संघान्द्विजराजं जगुर्द्विजाः ॥ १०१॥ १०१. द्वे षष्टी वर्षाणि जीवितमानमेषां द्विषाष्टिका अतिवृद्धा द्विजो ऋत्विजो द्विजराजं चन्द्रं जगुर्गायन्ति स्म । यो हि येषां राजा स्यात्स तेर्गीयते । कीदृशाः सन्तः । अष्टावृचो मानमेषां तैरष्टकैः ष. निवरस्तोत्रेः सोमस्तुतिरूपषत्रगष्टकमयेन बृहता स्तोमेन कृत्वेत्यर्थः । अष्टौ रूपाणि वारा मानमस्या अष्टिका साधीतिः पाठो येषां ते स्तोत्रंस्वरूपाणि षड्गष्टकान्यष्टौ वारान्पठन्त इत्यर्थः। तथा पञ्चावयवा मानमेषां पञ्चकान्संघानजौघान्बन्धन्तः । किलायुष्टोमयाग आयुवृद्ध्यर्थं परमायुभिरेव यज्वभिः क्रियते तत्र च तैः पूर्णिमाचन्द्रोदय आलम्भाय पञ्चाजान्यूपस्तम्भे बनद्भिरष्टाचत्वारिंशदृग्मयमष्टाचत्वारिंशाख्यं महास्तोममष्टौ वारान्गायद्भिश्च चन्द्रः स्तूयत इति याज्ञिकाः॥
द्विषाष्टिकाः । अत्र “जीवितस्य सन्" [ १७० ] इतीकण् स च सन् ॥ पञ्चकान् । अष्टकैः । अष्टिका । इत्यत्र “संख्यायाः०" [१७१] इत्यादिना कः ॥
१ ए कावीत. २ बी भन्ता प. ३ सीन्संध्यान्द्रि'.
१ ए अथकं. २ बी ण् । द्वेषा'. ३ सी जा द्वि'. ४ बी गीयंते. ५ ए सी स्तोत्रै सो . ६ ए सार्वातिः, ७सी त्ररू. ८ एल्युमिः य. बी युभिरिव. ९ बी चन्द्र श्रये ई. सी चंद्र स्तू. १० ए काः । अ. ११ बी कैः । षष्टि. १२ सी अष्टका. .