________________
३८०
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
७७. वासकसज्जिकाः सुरतायैष्यति प्रिये हर्षेण स्वं मण्डयन्त्यः स्त्रियः क्षणान्नेपथ्यं वस्त्रालंकारमण्डनादिवेषं दधुः । किंभूतम् । शत्याधिकं शतेन क्रीतादधिकं च । शिष्टं स्पष्टम् ॥
शतकैः स्तूयमानोपि स्तर्वनैः कान्दिशीकवत् ।
यावैत्कं तावतिकं नु रविरत्यजदंम्बरम् ॥ ७८ ॥
७८. रविरम्बरं व्योमात्यजत् । कान्दिशीकवदम्बरं नु । यथा कान्दिशीको भयद्रुतोतिभयेनाम्बरं वस्त्रं त्यजति । किंभूतम् । यावत्कं तावतिकं यावता तावता च क्रीतं महार्घमपीत्यर्थः । कीदृक् । शतं लोका मानमेषां शेतकैः स्तवनैः कृत्वा स्तूयमानोपि । अपिर्विरोधे । निग्रहानुग्रहसमर्थो हि लोकैः स्तूयते स च न कान्दिशीकर्वेदम्बरं त्यजतीति विरोधः । परिहारस्तु स्पष्ट एव । अर्थं च यः शतकैस्तवनैः स्तूयते स स्तावकेभ्यो महार्घ्य (र्घ ? ) मप्यम्बरं त्यजति ददाती - त्युक्तिलेशः ॥
संख्या । बहुकम् । उति । कतिकम् । त्रिंशत्कम् | विंशतिकम् । अत्र “संख्या०” [ १३० ] इत्यादिना कः ॥ अशत्तिष्टेरिति किम् । पाञ्चाशत्कम् साप्ततिर्कम् । षाष्टिकम् ॥
1
शंत्य । शतिकम् । अत्र “शतात् ० " [ १३१] इत्यादिना येकौ ॥ अंतरिम - निति किम् । शतकैः स्तवनैः ॥
१ बी 'तकै स्तू. २ एव कादिशी. ३ ए सी 'वत्क ता. ४ ए "कं तु र ५ ए "दन्तर".
१ सी शतेन. २ बी "त्यादिकं .
६ बी वदंत्य".
५ ए सी 'पिविरो°.
९ ए शत्या । श°. बी शति
३ ए सी 'हाव्यम'.
बाय:.
७ सी लि.
१० बी
४ ए शतिकैः .
८ एक । षा'.