________________
३७६ व्याश्रयमहाकाव्ये
[कुमारपालः] घण्मास्यान्मीनान् । पाण्मास्याभ। पाण्मासिके बके। अत्र "पण्मासाद्" [१५] इत्यादिना ययणिकणः ॥ मासिकम् । मासिक । इत्यत्र “सोस्य." [ ११६ ] इत्यादिना-इकण् ॥
आभिषेचनिकैस्तोयैः क्लमैकागारिकैदी। एवमानन्दयद्योषाश्चौडश्राद्धैरिवोत्सवैः ॥ ७० ॥ ७०. नदी वर्णासा तोयैः कृत्वैवमुक्तरीत्या योषा आनन्दयत् । यत आभिषेचनिकैरभिषेकप्रयोजनैस्तथा क्लम ऐकागारिकैश्चौरैः खेदोच्छेदकैः । यथा चौडश्राद्धैश्चूडाप्रयोजनैः श्रद्धाप्रयोजनैश्चोत्सवैर्मुण्डनोत्सवैः श्राद्धोत्सवैश्च कृत्वा काचिद्योषा आनन्दयति ॥
आभिषेचनिकैः । अत्र "प्रयोजनम्" [ 10 ] इतीकर्ण ॥ ऐकागारिकैः । अत्र "एक०' [ ११८ ] इत्यादिनेकण् ॥ चौडश्राद्धैः । अत्र "चूडादिभ्योण्" [ ११९ ] इत्यण ॥
दोवैशाखैर्विगाह्याम्भः क्षुभ्यदाषाढिवीक्षिताः।
कामोपस्थापनीयोत्थापनीयास्तास्तटीमयुः ॥ ७१ ॥ ७१. ता नार्यस्तटी नदीतीरमयुः । किं कृत्वा । दोर्वैशाखैर्बाहुमन्थानकैः कृत्वाम्भो विगाह्य विलोड्य । कीदृश्यः सत्यः । स्नानेन शोभातिशयात्कामस्योपस्थापनं निकटीकरणमुत्थापनं चोल्लासनं प्रयोजनमासां ताः कामोपस्थापनीयोत्थापनीया अत एव क्षुभ्यन्तो य आषाढिन आषाढो मुनिदण्डस्तद्वन्तो मुनयस्तैरपि वीक्षिताः सकामं दृष्टाः ॥ १ बी वान्सौड'. २ बी सी शापैर्वि'. ३ सी पाढवी. १बी षण्मस्या. २ ए °न् । षण्मा'. ३ बी त्या येषा. एबी 'म एका. ५ सी था खोड'. ६ वी त्सर्वमु. ७ए वैः कृ. ८ बी सी •ण ! एका. ९बी 'दित्यादिभ्यो'. १० बी ण् । दौ. ११ ए त्वा । दौर्विशा. बीत्वा । दौ. १२ सी स्थानं. १३ बी योस्थाप. १४ एंवदन्तो.