________________
है. ६.४.११४. सप्तदशः सर्गः।
३७५ मासिकं ब्रह्मचर्य ते मासिकब्रह्मचारिवत् ।
किं पाण्मास्यार्भमुग्धेति तटस्थो जहसेन्यया ॥ ६९ ॥ ६९. तटस्थः पतिरन्यया जहसे । कथमित्याह । रे षाण्मास्याभमुग्ध जलकेलिरसानभिज्ञतया षण्मासान्भूतो योर्भो बालकस्तद्वन्मूर्ख यत्त्वं जलकेलिं न करोषि तत्किं ते मासिकब्रह्मचारिवन्मासोस्य ब्रह्मचारिणो मासिको यो ब्रह्मचारी तस्येव ब्रह्मचर्यमस्ति । कीदृशम् । मासोस्य ब्रह्मचर्यस्य मासिकमिति ॥
पाण्मास्यामिः सखीदासीमिः। षण्मासिकैमित्रभृत्यैः । अत्र "पण्मासाद्" [१०८] इत्यादिना ण्येकौ ॥ अवयंसीति किम् । षण्मास्यमृगें ॥
समीन । इत्यत्र “समाया ईनः" [ १०९] इतीनः ॥ त्रिरात्रीणम् । यहीना। द्विसंवत्सरीण । द्विसमीना । इत्यत्र "रात्रि." [११० ] इत्यादिना वा-ईनः ॥ पक्ष इकण् । द्वैरात्रिकम् । द्वैयह्निकम् । द्विसावत्सरिकी । द्वैसमिक ॥
त्रिवर्षान् । द्विवर्षीणान् । अत्र “वर्षादश्च वा" [ १] इति-अ-ईनश्च वा ॥ पक्षे । द्विवार्षिकम् । इकण् ॥ द्विवहसः । अत्र "प्राणिनि भूते" [११२] इति अः ॥ द्विमास्यहंसः। अत्र "मासाद्" [११३] इत्यादिना यः॥ मासीन । मास्यैर्हसैः । अत्र “ईन" [ ११४ ] इति-ईनन् यश्च ।
१बीर्य त मा.
१बी सामि . २ ए लवास्त°. ३ सी को ब्र. ४ बी तस्यैव. ५ सी र्यस्य मासि. ६ ए ह्मचारस्य'. ७ बी 'ति । षण्मा. ८ बी 'भिः । पाण्मा'. ९ सी यवादिति. १० बी ग। मी'. ११ ए °त्रीणां । ब. १२ सी हीनाः । दि. १३ सी मिकः । त्रि. १४ ए °न् । त्रिव..