SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ [है. ६.४.१२२.] सप्तदशः सर्गः। ३७७ वैशाखैः । आषाडि । इत्यत्र "विशाखा." [ १२० ] इत्यादिनाम् ॥ उस्थापनीयाः। उपस्थापनीय। इत्यत्र "उत्यापनादेरीयः" [१२१] इनीयः॥ प्रियेच्छापूरणीयाः संवेशनीयास्ततोगमन् । वशाप्रपदनीयाश्वारोहणीयाः स्वधार्म ताः ॥ ७२ ॥ ७२. ततस्ता नार्यः स्वधाम स्वकीयं गृहमगमन् । कीदृश्यः सत्यः । संवेशनं सुरतं प्रयोजनमासां संवेशनीया अत एव प्रियेच्छा. पूरणीयाः प्रियाभिलाषपूरणप्रयोजना अत एवं च शीघ्र जिगमिषया वशामिर्हस्तिनीमिः प्रपदनं गमनमश्वस्यारोहणं च प्रयोजनमासां ताः ॥ अहःसमापनीयोथ प्रतीचीमगमद्रविः । खग्र्यैः काम्यैः स्तुतः स्वस्तिवाचनैः शान्तिवाचनैः ॥७३॥ ७३. अथ रविः प्रतीची पश्चिमामगमत् । कीहक् । अहःसमापनं दिनसमाप्तिः प्रयोजनं यस्य सोहःसमापनीयस्तथा स्वस्तिवाचनैः स्वस्तिवाचनप्रयोजनैर्द्विजैः स्तुतः । कैः कृत्वा । शान्तिवाचनैः शान्तिवाचनप्रयोजनमत्रैः । किंभूतः। उभै(भयै?)रपि । स्वग्र्यैः स्वर्गप्रयोजनैः परलोकप्रयोजनैरित्यर्थः । तथा काम्यैः कामप्रयोजनैरिहलोकप्रयो. जनैश्चेत्यर्थः ॥ संवेशनीयाः। अश्वारोहणीयाः। वशाप्रपदनीया । प्रियेच्छापूरणीयाः। अहःसमापनीयः । अत्र "विशिरुहि०" [ १२२ ] इत्यादिनेयः ॥ १वी णीया व. २ ए म तः । त'. १ सीनीया । उ. २ बी उत्थाप'. ३ सी उपस्थाप. ४ सी 'तीय ॥ ७२ संवेशमापनीत्य प्रतीची. ५ बी व शी. ६५ 'नव. ७ सी नैरित्यर्थः. ८बी दिजै स्तु. ९ए याः। अश्वारोहणीयाः । व. १० ए सी 'नीयाः । प्रि. ११बी विशार.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy