________________
[है• ६.४.१०८.] सप्तदशः सर्गः।
३७३ सान्भाविभिर्भूतैर्वा। यद्वा षण्मासेभ्योधीष्टैमित्रैः षण्मासेभ्योभृतैर्भूत्यैश्च । अथ तथा पाण्मास्याभिः सखीदासीभिरपि परस्परं जलच्छटा जलाघाताः प्रतीषिरे वाञ्छिताः । पतिसत्कैर्मित्रैर्जायासत्काभिः सखीमिः सह पतिसत्कै त्यैर्जायासत्काभिर्दासीभिश्च सहान्योन्यं जलकेलिश्चक इत्यर्थः । एतेन परिवारस्यापि जलकेलिरुक्ता ।
समीनमीनत्रस्तान्या षण्मास्यमृगलोलदृक् । द्विसमीना व्यहीना नु लिल्ये संकुच्य भर्तरि ॥ ६४ ॥ ६४. अन्या षण्मासान्भूतः षण्मास्यः शिशुयों मृगस्तद्वल्लोलहक्सती संकुच्य भर्तरि लिल्ये लीना । द्विसमीना ढ्यहीना नु । द्वाभ्यां समाभ्यामहोभ्यां वा निवृत्ता द्वे समे अहनी वा भूता भाविनी वा नु बालिकेवं । किमित्येवं लिल्य इत्याह । यतः समया वर्षेण निवृत्तः समां भूतो भावी वा समीनो यो मीनो मत्स्यस्तस्मात्रस्ता ॥
द्वैयहिकं त्रिरात्रीणं च द्विसंवत्सरीणवत् । व्यसरत्कापि पत्यागोद्भि_समिकशीधुवत् ॥ ६५ ॥ ६५. द्विसंवत्सरीणवद्यथा काचिद्वाभ्यां संवत्सराभ्यां निर्वृत्तं तौ भूतं वागश्चिरकालीनत्वाद्विस्मरति तथा काचित्पत्यागो भर्चपराधमद्भिर्जलकेलिरसातिरेकेणेत्यर्थः । व्यस्मरत् । किंभूतम् । द्वाभ्याम
१ सी कसीधु.
१बी विभूतै. २ ए °भ्यो त्यै . ३ ए सी °ण्मासाभिः. ४ सी 'लाटाः प्र. ५ बी शुयो मृ. ६ ए योंग मृ. ७ ए नानु द्य. बी 'ना बु द्य. ८ सी निवृत्ता. ९ सी अहिनी.. १० बी °व । लिकि. ११ बी सी निवृत्तः. १२ ए यो नीतो म. १३ सी निवृत्तं. १४ ए भर्वप'. १५ ए केलीर. १६ बी लिसा.