SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ [है. ६.४.१०४.] सप्तदशः सर्गः ३७१ ६०. कर्मण्या पतिव्रतानुरूपेण कर्मणा शोभमानैका स्त्री पैति कमलैरहन् । कीदृशम् । वेष्यं वेषेण स्वच्छत्वातिसूक्ष्मत्वादिगुणोपेतेन नेपथ्येन शोभमानम् । यद्वा । मण्डनादीनां जलेनोत्पुंसितत्वाद्वस्त्राणां च क्लिन्नत्वाद्वेषेणाशोभमानम् । कीदृक्सती । रे अकर्मण्य दुराचारेति जल्पन्ती । यतः । किंभूतम् । स्नानेन स्पष्टानि वेश्याया नखव्रणानि नखक्षतानि यस्य तम् ॥ कर्मण्या । वेष्यम् । अत्र "कर्म०" [ १०३ ] इत्यादिना यः ॥ पूर्ववन्नन्समासः स्यात् । अकर्मण्य । अवेष्यम् । केचिद्वेषस्थाने वेशं पठन्ति । वेशो वेश्यागृहं तेन शोभते वेश्या ॥ मासिक्या सेवया मानो यः प्रसादच मासिकः । तमाह्निक्याजयल्लेभेम्भ केल्या कोपि सुभ्रवः ॥६१॥ ६१. सुभ्रुवो यो मानोहंकारोतितीव्रत्वान्मासिक्या मासेन कार्यया मासेन सुकरया वा सेवया कृत्वा मासिको मासेन परिजेतुमुपशमयितुं शक्यस्तथा सुभ्रुवो यः प्रसादश्च प्रसन्नता च मासिक्या सेवया कृत्वा मासिको मासेन लभ्यस्तं मानं कोपि काम्याह्निक्याह्ना निर्वृत्तयाम्भ:केल्या कृत्वाजयदुपांशमयत्। तथा तं प्रसादमाह्निक्याम्भःकेल्या लेभे प्राप ॥ मासिकः । मासिक्या । इत्यत्र "कालात्परि०" [१०४ ] इत्यादिनेकण् ॥ बी हिक्यजियलेमेभः के. २ सीयमें. १बी सी तात्वरू. २ सीमानं यदा. ३ ए पति क. ४ बी स्वस्थत्वातिशुक्ष्म. ५ ए लेत्पुं. ६ ए त्वाद्वेषित्वादे. ७ए °स्य ताम्. ८ बी वेष्टयम्. सी वे चि. ९ए 'नोकारोती. १०बी पासम'. सी पासम ११ सी °ल्या मेदेन प्रा. १२ सी सिका।.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy